🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 111

Sarga 111

32 verses

Verse 1
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः
Verse 2
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः आचार्यश्चैव काकुत्स्थ पिता माता  राघव
Verse 3
पिता ह्येवं जनयति पुरुषं पुरुषर्षभ प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते
Verse 4
सोऽहं ते पितुराचार्यस्तव चैव परन्तप मम त्वं वचनं कुर्वन्नातिवर्तेस्सतां गतिम्
Verse 5
इमा हि ते परिषद श्श्रेणयश्च द्विजास्तथा एषु तात चरन्धर्मं नातिवर्ते: स‌तां गतिम्
Verse 6
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् अस्या हि वचनं कुर्वन्नातिवर्तेस्सतां गतिम्
Verse 7
भरतस्य वचः कुर्वन्याचमानस्य राघव आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम
Verse 8
एवं मधुरमुक्तस्सन् गुरुणा राघवस्स्वयम् प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः
Verse 9
यन्मातापितरौ वृत्तं तनये कुरुत: स‌दा  सुप्रतिकरं तत् तु मात्रा पित्रा  यत्कृतम् यथाशक्ति प्रदानेन स्वापनोच्छादनेन  नित्यं  प्रियवादेन तथा संवर्धनेन 
Verse 10
यन्मातापितरौ वृत्तं तनये कुरुतस्सदा  सुप्रतिकरं तत्तु मात्रा पित्रा  यत्कृतम् यथाशक्तिप्रदानेन स्वापनोच्छादनेन  नित्यं  प्रियवादेन तथा संवर्धनेन 
Verse 11
 हि राजा जनयिता पिता दशरथो मम आज्ञातं यन्मया तस्य  तन्मिथ्या भविष्यति
Verse 12
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् उवाच परमोदारस्सूतं परमदुर्मनाः
Verse 13
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे आर्यं प्रत्युपवेक्ष्यामि यावन्मे  प्रसीदति
Verse 14
अनाहारो निरालोको धनहीनो यथा द्विजः शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति
Verse 15
 तु राममवेक्षन्तं सुमन्त्रं पेक्ष्य दुर्मनाः कुशोत्तरमुपस्थाप्य भूमावेवाऽस्तरत्स्वयम्
Verse 16
तमुवाच महातेजा रामो राजर्षिसत्तमः किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि
Verse 17
ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति  तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने
Verse 18
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव
Verse 19
आसीनस्त्वेव भरतः पौरजानपदं जनम् उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ
Verse 20
ते तदोचुर्महात्मानं पौरजानपदा जनाः काकुत्स्थमभिजानीमः सम्यग् वदति राघवः
Verse 21
एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति अत एव  शक्ताः स्मो व्यावर्तयितुमञ्जसा
Verse 22
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्
Verse 23
एतच्चैवोभयं श्रुत्वा सम्यक्सम्पश्य राघव उत्तिष्ठ त्वं महाबाहो मां  स्पृश तथोदकम्
Verse 24
अथोत्थाय जलंस्पृष्ट्वा भरतो वाक्यमब्रवीत् श्रुण्वन्तु मे परिषदो मन्त्रिण श्श्रेणयस्तथा
Verse 25
 याचे पितरं राज्यं नानुशासामि मातरम् आर्यं परमधर्मज्ञं नानुजानामि राघवम्
Verse 26
यदित्ववश्यं वस्तव्यं कर्तव्यं  पितुर्वचः अहमेव निवत्स्यामि चतुर्दश समा वने
Verse 27
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः उवाच राम स्सम्प्रेक्ष्य पौरजानपदं जनम्
Verse 28
विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम  तल्लोपयितुं शक्यं मया वा भरतेन वा
Verse 29
उपधिर्न मया कार्यो वनवासे जुगुप्सितः युक्तमुक्तं  कैकेय्या पित्रा मे सुकृतं कृतम्
Verse 30
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि
Verse 31
अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः
Verse 32
वृतो हि राजा कैकेय्या मया तद्वचनं कृतम् अनृतान्मोचयानेन पितरं तं महीपतिम्
0:000:00
Speed: