Book 2 • Chapter 110
Sarga 110
34 verses
Verse 1
क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह जाबालिरपि जानीते लोकस्यास्य गतागतिम्
Verse 2
निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे
Verse 3
सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह
Verse 4
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः
Verse 5
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः तस्मान्मरीचि: संजज्ञे मरीचेः कश्यप: सुतः
Verse 6
विवस्वान्काश्यपात् जज्ञे मनुर्वैवस्वत: स्वयम् स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनो: सुतः
Verse 7
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्
Verse 8
इक्ष्वाकोस्तु सुत श्रीमान्कुक्षिरेवेति विश्रुतः कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत
Verse 9
विकुक्षेस्तु महातेजा बाणः पुत्र प्रतापवान् बाणस्य तु महाबाहुरनरण्यो महातपा:
Verse 10
नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षं सतां वरे अनरण्ये महाराजे तस्करो नापि कश्चन
Verse 11
अनरण्यान्महाबाहुः पृथु राजा बभूव ह तस्मात्पृथोमेहाराजस्त्रिशङ्कुरुदपद्यत स सत्यवचनाद् वीर: सशरीरो दिवं गतः
Verse 12
त्रिशङ्कोरभवत्सूनुर्दुन्धुमारो महायशाः दुन्धुमारान्महातेजा युवनाश्वो व्यजायत
Verse 13
युवनाश्वसुत श्श्रीमान्मान्धाता समपद्यत मान्धातुस्त महातेजा: सुसन्धिरुदपद्यत सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः
Verse 14
युवनाश्वसुत श्श्रीमान्मान्धाता समपद्यत मान्धातुस्त महातेजा स्सुसन्धिरुदपद्यत सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः
Verse 15
भरतात्तु महाबाहोरसितो नाम जायत यस्यैते प्रतिराजान उदपद्यन्त शत्रवः हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः
Verse 16
भरतात्तु महाबाहोरसितो नाम जायत यस्यैते प्रतिराजान उदपद्यन्त शत्रवः हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः
Verse 17
तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः स च शैलवरे रम्ये बभूवाभिरतो मुनिः
Verse 18
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः एका गर्भविनाशाय सपत्न्यै गरलं ददौ
Verse 19
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि
Verse 20
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः
Verse 21
कृत्वा प्रदक्षिणं हृष्टा मुनिंतमनुमान्य च पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् तत: सा गृहमागम्य देवी पुत्रं व्यजायत
Verse 22
कृत्वा प्रदक्षिणं हृष्टा मुनिंतमनुमान्य च पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् तत: सा गृहमागम्य देवी पुत्रं व्यजायत
Verse 23
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया गरेण सह तेनैव जात स्स सगरोऽभवत्
Verse 24
स राजा सगरो नाम य: समुद्रमखानयत् इष्ट्वा पर्वणि वेगेन त्रासयन इमाः प्रजाः 2.110.24
Verse 25
असमञ्जस्तु पुत्रोऽभूत्सगरस्येति न श्श्रुतम् जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत्
Verse 26
अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् दिलीपोंशुमतः पुत्रो दिलीपस्य भगीरथः
Verse 27
भगीरथात्ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन च राघवाः
Verse 28
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः कल्माषपाद स्सौदास इत्येवं प्रथितो भुवि
Verse 29
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत्
Verse 30
शङ्खणस्य च पुत्रोऽभूच्छूर श्रीमान्सुदर्शनः सुदर्शनस्याग्निवर्णः अग्निवर्णस्य शीघ्रगः शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः प्रशुश्रुवस्य पुत्रोभूदम्बरीषो महाद्युतिः अम्बरीषस्य पुत्रोभून्नहुषः सत्यविक्रमः नहुषस्य च नाभागः पुत्रः परमधार्मिकः अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ अजस्यैव च धर्मात्मा राजा दशरथस्सुतः
Verse 31

Verse 32

Verse 33

Verse 34
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप
0:000:00
Speed: