🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 109

Sarga 109

39 verses

Verse 1
जाबालेस्तु वचश्श्रुत्वा राम स्सत्यात्मनां वरः उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया
Verse 2
भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मतम्
Verse 3
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः मानं  लभते सत्सु भिन्नचारित्रदर्शनः
Verse 4
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम्
Verse 5
अनार्यस्त्वार्यसङ्काश श्शौचाद्दीनस्ताथाऽशुचिः लक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव अधर्मं धर्मवेशेण यदीमं लोकसङ्कुरम् अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्
Verse 6
अनार्यस्त्वार्यसङ्काश श्शौचाद्दीनस्ताथाऽशुचिः लक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव अधर्मं धर्मवेशेण यदीमं लोकसङ्कुरम् अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्
Verse 7
अनार्यस्त्वार्यसङ्काश श्शौचाद्दीनस्ताथाऽशुचिः लक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव अधर्मं धर्मवेशेण यदीमं लोकसङ्कुरम् अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्
Verse 8
कस्य दास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् आनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया
Verse 9
कामवृत्तस्त्वयं लोकः कृत्स्न स्समुपवर्तते यद्वृत्ता स्सन्ति राजानस्तद्वृत्ता स्सन्ति हि प्रजाः
Verse 10
सत्यमेवानृशंसं  राजवृत्तं सनातनम् तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः
Verse 11
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्
Verse 12
उद्विजन्ते यथा सर्पान्नरादनृतवादिनः धर्म स्सत्यं परो लोके मूलं स्वर्गस्य चोच्यते
Verse 13
सत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्
Verse 14
दत्तमिष्टं हुतं चैव तप्तानि  तपांसि  वेदा स्सत्यप्रतिष्ठाना स्तस्मात्सत्यपरो भवेत्
Verse 15
एकः पालयते लोकमेकः पालयते कुलम् मज्जत्येको हि निरय एक स्स्वर्गे महीयते
Verse 16
सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये सत्यप्रतिश्रव स्सत्यं सत्येन समयीकृतः
Verse 17
नैव लोभान्न मोहाद्वा  ह्यज्ञानात्तमोऽन्वितः सेतुं सत्यस्य भेत्स्यामि गुरो स्सत्यप्रतिश्रवः
Verse 18
असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः नैव देवा  पितरः प्रतीच्छन्तीति नः श्रुतम्
Verse 19
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् भार स्सत्पुरुषाचीर्णस्तदर्थमभिमन्यते
Verse 20
क्षात्रं धर्ममहंत्यक्ष्ये ह्यधर्मं धर्मसंहितम् क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः
Verse 21
कायेन कुरुते पापं मनसा सम्प्रधार्य तत् अनृतं जिह्वया चाह त्रिविधं कर्मपातकम्
Verse 22
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि सत्यं समनुवर्तने सत्यमेव भजेत तत:
Verse 23
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् आह युक्ति करैर्वाक्यैरिदं भद्रं कुरुष्व 
Verse 24
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरॊ: भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः
Verse 25
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा
Verse 26
वनवासं वसन्नेव शुचिर्नियतभोजनः मूलपुष्पफलैः पुण्यैः पित्रून् देवांश्च तर्पयन् सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः
Verse 27
वनवासं वसन्नेवं शुचिर्नियतभोजनः मूलैः पुष्पैः फलैः पुण्यैः पित्रून् देवांश्च तर्पयन् सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः
Verse 28
कर्मभूमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः
Verse 29
शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः तपांस्युग्राणि चास्थाय दिवं याता महर्षयः
Verse 30
अमृष्यमाणः पुनरुग्रतेजाः निशम्य तं नास्तिकवाक्यहेतुम् अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य
Verse 31
सत्यं  धर्मं  पराक्रमं  भूतानुकम्पां प्रियवादितां  द्विजातिदेवातिधिपूजनं  पन्थानमाहुस्त्रिदिवस्य सन्तः
Verse 32
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः धर्मं चरन्त स्सकलं यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः
Verse 33
निन्दाम्यहं कर्म कृतं पितुस्तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् बुद्ध्याऽनयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्
Verse 34
यथा हि चोर: स‌ तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि तस्माद्धि य: श‌ङ्क्यतमः प्रजानाम्  नास्तिकेनाभिमुखो बुध: स्यात्
Verse 35
त्वत्तो जनाः पूर्वतरे द्विजाच्श्र शुभानि कर्माणि बहूनि चक्रुः जित्वा सदेमं  परं  लोकं तस्माव्दिजा स्व‌स्ति हुतं कृतं 
Verse 36
धर्मे रता: स‌त्पुरुषै: स‌मेतास्तेजस्विनो दानगुणप्रधानाः अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः
Verse 37
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् उवाच पथ्यं पुनरास्तिकं  सत्यं वच: सानुनयं  विप्रः
Verse 38
 नास्तिकानां वचनं ब्रवीम्यहं  नास्तिकोऽहं   नास्ति किञ्चन समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः
Verse 39
 चापि कालोऽय मुपागतश्शनैर्यथा मया नास्तिकवागुदीरिता निवर्तनार्थं तव राम कारणात् प्रसादनार्थं  मयैतदीरितम्
0:000:00
Speed: