🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 108

Sarga 108

18 verses

Verse 1
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः
Verse 2
साधु राघव माऽभूत्ते बुध्दिरेवं निरर्थिका प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः
Verse 3
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् यदेको जायते जन्तुरेक एव विनश्यति
Verse 4
तस्मान्माता पिता चेति राम सज्जेत यो नरः उन्मत्त इव  ज्ञेयो नास्ति कश्चिद्धि कस्यचित्
Verse 5
यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् उत्सृज्य  तमावासं प्रतिष्ठेतापरेऽहनि एवमेव मनुष्याणां पिता माता गृहं वसु अवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः
Verse 6
यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् उत्सृज्य  तमावासं प्रतिष्ठेतापरेऽहनि एवमेव मनुष्याणां पिता माता गृहं वसु अवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः
Verse 7
पित्र्यं राज्यं परित्यज्य  नार्हसि नरोत्तम आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्
Verse 8
समृद्धायामयोध्यायामात्मानमभिषेचय एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते
Verse 9
राजभोगाननुभवन्महार्हान्पार्थिवात्मज विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे
Verse 10
 ते कश्चिद्धशरथ स्त्वं  तस्य  कश्चन अन्यो राजा त्वमन्य स्तस्मात्कुरु यदुच्यते
Verse 11
बीजमात्रं पिता जन्तो श्शुक्लं रुधिरमेव  संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत्
Verse 12
गत स्स नृपतिस्तत्र गन्तव्यं यत्र तेन वै प्रवृततिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे
Verse 13
अर्थधर्मपरा ये ये तांस्तांछोचामि नेतरान् ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे
Verse 14
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति
Verse 15
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति दद्यात्प्रवसत श्श्राद्धं  तत्पथ्यशनं भवेत्
Verse 16
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज
Verse 17
 नास्ति परमित्येव कुरु बुद्धिं महामते प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु
Verse 18
सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः
0:000:00
Speed: