Book 2 • Chapter 107
Sarga 107
19 verses
Verse 1
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः प्रत्युवाच तत श्श्रीमान् ज्ञातिमध्येऽभिसत्कृतः
Verse 2
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात्
Verse 3
पुरा भ्रातः पिता न स्स मातरं ते समुद्वहन् मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्
Verse 4
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः
Verse 5
ततस्सा सम्प्रतिश्राव्य तव माता यशस्विनी अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ
Verse 6
ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा तच्च राजा तदा तस्यै नियुक्तः प्रददौ वरौ
Verse 7
तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ चतुर्दश वने वासं वर्षाणि वरदानिकम्
Verse 8
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः सीतया चाप्रतिद्वन्द्व स्सत्यवादे स्थितः पितुः
Verse 9
भवानपि तथेत्येव पितरं सत्यवादिनम् कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात्
Verse 10
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् पितरं चापि धर्मज्ञं मातरं चाभिनन्दय
Verse 11
श्रूयते धीमता तात श्रुतिर्गीता यशस्विना गयेन यजमानेन गयेष्वेव पितॄन् प्रति
Verse 12
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः
Verse 13
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्
Verse 14
एवं राजर्षय स्सर्वे प्रतीता राजनन्दन तस्मात्राहि नरश्रेष्ठ पितरं नरकात्प्रभो
Verse 15
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः
Verse 16
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् आभ्यान्तु सहितो राजन् वैदेह्या लक्ष्मणेन च
Verse 17
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् गच्छ त्वं पुरवरमद्य सम्प्रहृष्टस्संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये
Verse 18
छायां ते दिनकरभाः प्रबाधमानां वर्षत्रं भरत करोतु मूर्ध्नि शीताम् एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये
Verse 19
शत्रुघ्नः कुशलमतिस्तु ते सहायस्सौमित्रिर्मम विदितः प्रधानमित्रम् चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषीद
0:000:00
Speed: