🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 106

Sarga 106

35 verses

Verse 1
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् उवाच भरत श्चित्रं धार्मिको धार्मिकं वचः
Verse 2
को हि स्यादीदृशो लोके यादृश स्त्वमरिन्दमः  त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा नप्रहर्षयेत् सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्
Verse 3
को हि स्यादीदृशो लोके यादृश स्त्वमरिन्दम  त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा नप्रहर्षयेत् सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्
Verse 4
यथा मृत स्तथा जीवन्यथाऽसति तथा सति यस्यैष बुद्धिलाभ स्स्यात्परितप्येत केन सः
Verse 5
परावरज्ञो यश्च स्याद् यथा त्वं मनुजाधिप  एव व्यसनं प्राप्य  विषीदितुमर्हति
Verse 6
अमरोपमसत्त्व स्त्वं महात्मा सत्यसङ्गरः सर्वज्ञ स्सर्वदर्शी  बुद्धिमांश्चासि राघव
Verse 7
 त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् अविषह्यतमं दुःखमासादयितुमर्हति
Verse 8
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम
Verse 9
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् हन्मितीव्रेण दण्डेन दण्डार्हां पापकारिणीम्
Verse 10
कथं दशरथा ज्जात श्शुद्धाभिजनकर्मणः जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्
Verse 11
गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेतिच तातं  परिगर्हेयं दैवतं चेति संसदि
Verse 12
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् स्त्रियाः प्रियं चिकीर्षु स्सन्कुर्याद्धर्मज्ञ धर्मवित्
Verse 13
अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता
Verse 14
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्
Verse 15
पितुर्हि समतिक्रान्तं पुत्रो यस्साधु मन्यते तदपत्यं मतं लोके विपरीतमतोऽन्यथा
Verse 16
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः अभिपत्ता कृतं कर्म लोके धीरविगर्हितम्
Verse 17
कैकेयीं मां  तातं  सुहृदो बान्धवांश्च नः पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान्
Verse 18
क्व चारण्यं क्वच क्षात्रं क्व जटाः क्व  पालनम् ईदृशं व्याहतं कर्म  भवान्कर्तुमर्हति
Verse 19
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्
Verse 20
कश्च प्रत्यक्षमुत्सृज्य संशयस्थ मलक्षणम् आयतिस्थं चरे द्धर्मं क्षत्रबन्दुरनिश्चितम्
Verse 21
अथ क्लेशज मेव त्वं धर्मं चरितु मिच्छसि धर्मेण चतुरो वर्णान्पालयन् क्लेश माप्नुहि
Verse 22
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमुत्तमम् आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तु मर्हसि
Verse 23
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्  कथं पालयिष्यामि भूमिं भवति तिष्ठति
Verse 24
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् भवता  विनाभूतो  वर्तयितुमुत्सुहे
Verse 25
इदं निखिल मव्यग्रं राज्यं पित्र्यमकण्टकम् अनुशाधि स्वधर्मेण धर्मज्ञ सहबान्धवैः
Verse 26
इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतय स्सह ऋत्विज स्सवसिष्ठाश्च मन्त्रविन्मन्त्रकोविदाः
Verse 27
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज विजित्य तरसा लोकान्मरुद्भिरिव वासवः
Verse 28
ऋणानि त्रीण्यपाकुर्वन्दुर्हृदस्साधु निर्दहन् सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम्
Verse 29
अद्याऽर्य मुदिता स्सन्तु सुहृदस्तेऽभिषेचने अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश
Verse 30
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ अद्य तत्र भवन्तं  पितरं रक्ष किल्बिषात्
Verse 31
शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि बान्धवेषु  सर्वेषु भूतेष्विव महेश्वरः
Verse 32
अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः गमिष्यति गमिष्यामि भवता सार्धमप्यहम्
Verse 33
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानश्शिरसा महीपतिः नचैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः
Verse 34
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः  यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः
Verse 35
तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मातरः तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं  ययाचिरे सह
0:000:00
Speed: