🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 105

Sarga 105

46 verses

Verse 1
ततः पुरुषसिंहानां वृतानां तै स्सुहृद्गणैः शोचतामेव रजनी दुःखेन व्यत्यवर्तत
Verse 2
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्
Verse 3
तूष्णीं ते समुपासीना  कश्चित्किञ्चिदब्रवीत् भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत्
Verse 4
सान्त्विता मामिका माता दत्तं राज्यमिदं मम तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्
Verse 5
महतेवाम्बुवेगेन भिन्नस्सेतुर्जलागमे दुरावारं त्वदन्येन राज्यखण्डमिदं महत्
Verse 6
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः अनुगन्तुं  शक्तिर्मे गतिं तव महीपते
Verse 7
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते राम तेन तु दुर्जीवं यः परानुपजीवति
Verse 8
यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ह्रस्वकेण दुरारोहो रूढस्कन्धो महाद्रुमः  यदा पुष्पितो भूत्वा फलानि  विदर्शयेत्  तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः एषोपमा महाबाहो तमर्थं वेत्तु मर्हसि यदि त्वमस्मान्वृषभो भर्ता भृत्यान्न शाधि हि
Verse 9

Verse 10

Verse 11
श्रेणयस्त्वां महाराज पश्यन्त्वग्य्राश्च सर्वशः प्रतपन्तमिवादित्यं राज्ये स्थित मरिन्दमम्
Verse 12
तवानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः
Verse 13
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः भरतस्य वच श्श्रुत्वा रामं प्रत्यनुयाचतः
Verse 14
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् रामः कृतात्मा भरतं समाश्वासयदात्मवान्
Verse 15
नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः इतश्चेतरतश्चैनं कृतान्तः परिकर्षति
Verse 16
सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं  जीवितम्
Verse 17
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्
Verse 18
यथाऽगारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति तथैव सीदन्ति नरा जरामृत्युवशं गताः
Verse 19
अत्येति रजनी या तु सा  प्रतिनिवर्तते यात्येव यमुना पूर्णा समुद्रमुदकाकुलम्
Verse 20
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह अायूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः
Verse 21
आत्मानमनुशोच त्वं किमन्यमनुशोचसि आयुस्ते हीयते यस्य स्थितस्य  गतस्य 
Verse 22
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति गत्वासुदीर्घमध्वानं सहमृत्युर्निवर्तते
Verse 23
गात्रेषु वलयः प्राप्ता श्श्वेताश्चैव शिरोरुहाः जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्
Verse 24
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्
Verse 25
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः
Verse 26
यथा काष्ठं  काष्ठं  समेयातां महार्णवे समेत्य  व्यपेयातां कालमासाद्य कञ्चन एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि  समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः
Verse 27
यथा काष्ठं  काष्ठं  समेयातां महार्णवे समेत्य  व्यपेयातां कालमासाद्य कञ्चन एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि  समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः
Verse 28
नात्र कश्चिद्यथाभावं प्राणी समभिवर्तते तेन तस्मिन्न सामर्थ्यं प्रेतस्या स्त्यनुशोचतः
Verse 29
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः अहमप्यागमिष्यामि पृष्ठतो भवता मिति एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः
Verse 30
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः अहमप्यागमिष्यामि पृष्ठतो भवता मिति एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः
Verse 31
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः आत्मा सुखे नियोक्तव्यस्सुखभाजः प्रजाः स्मृताः
Verse 32
धर्मात्मा  शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः
Verse 33
भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् अर्थादानाच्च धर्मेण पिता  स्त्रिदिवंगतः
Verse 34
कर्मभि स्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः
Verse 35
इष्ट्वा बहुविधैर्यज्ञैर्भोगां श्चावाप्य पुष्कलान् उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः
Verse 36
आयुरुत्तममासाद्य भोगानपि  राघवः   शोच्यः पिता तात स्वर्गत स्सत्कृत स्सताम्
Verse 37
 जीर्णं मानुषं देहं परित्यज्य पिता हि नः दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्
Verse 38
तं तु नैवंविधः कश्चित्प्राज्ञ श्शोचितुमर्हति तत्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः
Verse 39
एते बहुविधा शोका विलापरुदिते तथा वर्जनीया हि धीरेण सर्वावस्थासु धीमता
Verse 40
 स्वस्थो भव मा शोचेर्यात्वा चावसतां पुरीम् तथा पित्रा नियुक्तोऽसि वशिना वदतां वर
Verse 41
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्
Verse 42
 मया शासनं तस्य त्यक्तुं न्याय्य मरिन्दम  त्वयापि सदा मान्यं  वै बन्धु  नः पिता
Verse 43
तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः कर्मणा पालयिष्यामि वनवासेन राघव
Verse 44
धार्मिकेणानृशंसेन नरेण गुरुवर्तिना भवितव्यं नरव्याघ्र परलोकं जिगीषता
Verse 45
आत्मानमनुतिष्ठत्वं स्वभावेन नरर्षभ निशाम्यतु शुभं वृत्तं पितुर्दशरथस्य नः
Verse 46
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेश प्रतिपालनार्थम् यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः
0:000:00
Speed: