Book 2 • Chapter 104
Sarga 104
27 verses
Verse 1
तं तु राम स्समाश्वास्य भ्रातरं गुरवत्सलम् लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे
Verse 2
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया यस्मात्त्वमागतो देशमिमं चीरजटाजिनः
Verse 3
यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि
Verse 4
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्
Verse 5
आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् गत: स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः
Verse 6
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप चकार सा महत्पापमिदमात्मयशोहरम्
Verse 7
सा राज्यफलमप्राप्य विधवा शोककर्शिता पतिष्यति महाघोरे निरये जननी मम
Verse 8
तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि अभिषिञ्चस्व चाद्येव राज्येन मघवानिव
Verse 9
इमाः प्रकृतय स्सर्वा विधवा मातरश्च याः त्वत्सकाशमनुप्राप्ता प्रसादं कर्तुमर्हसि
Verse 10
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु
Verse 11
भवत्वविधवा भूमि स्समग्रा पतिना त्वया शशिना विमलेनेव शारदी रजनी यथा
Verse 12
एभिश्च सचिवैस्सार्धं शिरसा याचितो मया भ्रातु शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि
Verse 13
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि
Verse 14
एवमुक्त्वा महाबाहु स्सबाष्पः कैकयीसुतः रामस्य शिरसा पादौ जग्राह भरत: पुन:
Verse 15
तं मत्तमिव मातङ्गं निःश्वसन्तं पुन पुनः भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्
Verse 16
कुलीन:सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः
Verse 17
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि
Verse 18
कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ उपपन्नेषु दारेषु पुत्रेषु च विधीयते
Verse 19
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभिः भार्याः पुत्राश्च शिष्याश्च त्वमनुज्ञातुमर्हसि
Verse 20
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् राज्ये वाऽपि महाराजो मां वासयितुमीश्वरः
Verse 21
यावत पितरि धर्मज्ञे गौरवं लोकसत्कृतम् तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्
Verse 22
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव मातापितृभ्यामुक्तोऽहं कथमन्यत्समाचरे
Verse 23
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् वस्तव्यं दण्डकारण्ये मया वल्कलवाससा
Verse 24
एवं कृत्वा महाराजो विभागं लोकसन्निधौ व्यादिश्य च महातेजा दिवं दशरथो गतः
Verse 25
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि
Verse 26
चतुर्दश समास्सौम्य दण्डकारण्यमाश्रितः उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना
Verse 27
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वर भावमप्ययम्
0:000:00
Speed: