🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 103

Sarga 103

32 verses

Verse 1
वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य  अभिचक्राम तं देशं रामदर्शनतर्षितः
Verse 2
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ददृशु स्तत्र तत् तीर्थं रामलक्ष्मणसेवितम्
Verse 3
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः
Verse 4
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः
Verse 5
इत स्सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्
Verse 6
जघन्यमपि ते पुत्रः कृतवान्  तु गर्हितः भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितंं गुणैः
Verse 7
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः नीचानर्थ समाचारं सज्जं कर्म प्रमुञ्चतु
Verse 8
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना
Verse 9
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा उवाच देवी कौसल्या सर्वा दशरथस्त्रियः
Verse 10
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि
Verse 11
तस्य देवसमानस्य पार्थिवस्य महात्मनः नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्
Verse 12
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः कथमिङ्गुदिपिण्याकं  भुक्ते वसुधाधिपः
Verse 13
अतो दुःखतरं लोके  किञ्चित्प्रतिभाति मा यत्र रामः पितुर्दद्यादिङ्गुदिक्षोदमृद्धिमान्
Verse 14
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे कथं दुःखेन हृदयं  स्फोटति सहस्रधा
Verse 15
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः
Verse 16
एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम्
Verse 17
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः
Verse 18
तासां रामस्समुत्थाय जग्राह चरणान् शुभान् मात्रूणां मनुजव्याघ्रस्सर्वासां सत्यसङ्गरः
Verse 19
ताः पाणिभि स्सुखस्पर्शैर्मृद्वङ्गुलितलै श्शुभैः प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः
Verse 20
सौमित्रिरपि ता स्सर्वा मातृ़स्सम्प्रेक्ष्य दुःखितः अभ्यवादयतासक्तं शनै रामादनन्तरम्
Verse 21
यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे
Verse 22
सीताऽपि चरणांस्तासामुपसङ्गृह्य दुःखिता श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता
Verse 23
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत्
Verse 24
विदेहराजस्य सुता स्नुषा दशरथस्य  रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने
Verse 25
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः
Verse 26
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाऽश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः
Verse 27
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः पादावासाद्य जग्राह वसिष्ठस्य  राघवः
Verse 28
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्रमिवामराधिपः प्रगृह्य पादौ सुसमृद्धतेजसस्सहैव तेनोपविवेश राघवः
Verse 29
ततो जघन्यं सहितै स्समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरत स्तदाऽग्रजम्
Verse 30
उपोपविष्ट स्तु तदा  वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम्
Verse 31
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य  साधु वक्ष्यति इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा
Verse 32
 राघव स्सत्यधृति श्च लक्ष्मणो महानुभावो भरत श्च धार्मिकः वृताः सुहृद्भि श्च विरेजुरध्वरे यथा सदस्यै स्सहितास्त्रयोऽग्नयः
0:000:00
Speed: