🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 102

Sarga 102

49 verses

Verse 1
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् राघवो भरते नोक्तां बभूव गतचेतनः
Verse 2
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रंभरते नोक्त ममनोज्ञं परन्तपः प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः वने परशुना कृत्तस्तथा भुवि पपात 
Verse 3
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रंभरते नोक्त ममनोज्ञं परन्तपः प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः वने परशुना कृत्तस्तथा भुवि पपात 
Verse 4
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रंभरते नोक्त ममनोज्ञं परन्तपः प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः वने परशुना कृत्तस्तथा भुवि पपात 
Verse 5
तथा हि पतितं रामं जगत्यां जगतीपतिम् कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् 2.102. 4 भ्रातरस्ते महेष्वासं सर्वतश्शोककर्शितम् रुदन्तस्सह वैदेह्या सिषिचुस्सलिलेन वै
Verse 6
 तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन् उपाक्रामत काकुत्स्थ कृपणं बहु भाषितुम्
Verse 7
 रामस्स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम्
Verse 8
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते कस्तां राजवराध्दीनामयोध्यां पालयिष्यति
Verse 9
किं नु तस्य मया कार्यं दुर्जातेन महात्मनः यो मृतो मम शोकेन मया चापि  संस्कृतः
Verse 10
अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ शत्रुघ्नेन  सर्वेषु प्रेतकृत्येषु सत्कृतः
Verse 11
निष्प्रधानामनेकाग्रां नरेन्द्रेण विनाकृताम् निवृत्तवनवासोऽपि नायोध्यां गन्तु मुत्सहे
Verse 12
समाप्तवनवासं मामयोध्यायां परन्तप कोऽनु शासिष्यति पुनस्ताते लोकान्तरं गते
Verse 13
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् वाक्यानि तानि श्रोष्यामि कुतश्श्रोत्रसुखान्यहम्
Verse 14
एवमुक्त्वा  भरतं भार्यामभ्येत्य राघवः उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम्
Verse 15
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्
Verse 16
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम्
Verse 17
ततस्ते भ्रातर स्रव्रॆ भृशमाश्वास्य दु:खितम् अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः
Verse 18
सा सीता स्वर्गतं श्रुत्वा श्वशुरं तं महानृपम् नेत्राभ्यामश्रुपूर्णाभ्या शशाकेक्षितुं प्रियम्
Verse 19
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः
Verse 20
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् जलक्रियार्थं तातस्य गमिष्यामि महात्मनः
Verse 21
सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा
Verse 22
ततो नित्यानुगस्तेषां विदितात्मा महामतिः मृदुर्दान्तश्च कान्तश्च रामे  दृढभक्तिमान् सुमन्त्र स्तैर्नृपसुतैस्सार्धमाश्वस्य राघवम् अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्
Verse 23
ततो नित्यानुगस्तेषां विदितात्मा महामतिः मृदुर्दान्तश्च शान्तश्च रामे  दृढभक्तिमान् सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्
Verse 24
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् सिषिचु स्तूदकं राज्ञे तत एतद् भवत्विति
Verse 25
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् सिषिचु स्तूदकं राज्ञे तातैतत्ते भवत्विति
Verse 26
प्रगृह्य  महीपालो जलपूरितमञ्जलिम् दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्
Verse 27
एतत्ते राजशार्दूल विमलं तोयमक्षयम् पितृलोकगत स्याद्य मद्दत्तमुपतिष्ठतु
Verse 28
ततो मन्दाकिनीतीरात्प्रत्युत्तीर्य  राघवः पितुश्चकार तेजस्वी निर्वापं भ्रातृभि सह
Verse 29
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे न्यस्य रामस्सदुःखार्तो रुदन्वचनमब्रवीत्
Verse 30
इदं भुङ्क्ष्वमहाराज प्रीतो यदशना वयम् यदन्नः पुरुषो भवति तदन्ना स्तस्य देवताः
Verse 31
तत स्तेनैव मार्गेण प्रत्युत्तीर्य सरित्तटात् आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्
Verse 32
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ
Verse 33
तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद् गिरौ भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव
Verse 34
महाबलानां रुदतां कुर्वतामुदकं पितुः विज्ञाय तुमुलं शब्दं त्रस्ता भरत सैनिकाः 2.102.34
Verse 35
अब्रुवंश्चापि रामेण भरत संगतो ध्रुवम् तेषामेव महान् श‌ब्द: शोचतां पितरं मृतम्
Verse 36
अथ वासान्परित्यज्य तं सर्वेऽभिमुखास्स्वनम् अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः
Verse 37
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः सुकुमारा स्तथैवान्ये पद्भिरेव नरा ययुः
Verse 38
अचिरप्रोषितं रामं चिरविप्रोषितं यथा द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम्
Verse 39
भ्रातृ़णां त्वरितास्ते तु द्रष्टुकामा स‌मागमम् ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलैः
Verse 40
सा भूमिर्बहुभिर्यानैः रथ‌नेमिसमाहता मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे
Verse 41
तेन वित्रासिता नागाः करेणुपरिवारिताः आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः
Verse 42
वराह वृकसङ्घाश्च महिषा: सृमरास्तथा व्याघ्रगोकर्णगवया वित्रेसुः पृषतै स‌ह
Verse 43
रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः परे तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः
Verse 44
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा
Verse 45
ततस्तं पुरषव्याघ्रं यशस्विनमकल्पषम् आसीनं स्थण्डिले रामं ददर्श सहसा जनः
Verse 46
विगर्हमाणः कैकेयीं मन्थरासहितामपि अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत्
Verse 47
तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः
Verse 48
 तत्र कांश्चित्परिषस्वजे नरान्नरास्तु केचित्तु तमभ्यवादयन् चकार सर्वान्सवयस्यबान्धवान्यथार्ह मासाद्य तदा नृपात्मजः
Verse 49
 तत्र तेषां रुदतां महात्मनां भुवं  खं चानुनिनादयन्स्वनः गुहा गिरीणां  दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे
0:000:00
Speed: