Book 2 • Chapter 101
Sarga 101
9 verses
Verse 1
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति
Verse 2
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ज्येष्ठेे पुत्रे स्थिते राजा न कनीयान् भवेन्नृपः
Verse 3
स समृद्धां मया सार्धमयोध्यां गच्छ राघव अभिषेचयचात्मानं कुलस्यास्य भवाय नः
Verse 4
राजानं मानुषं प्राहु र्देवत्वे सम्मतो मम यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्
Verse 5
केकयस्थे च मयि तु त्वयि चारण्य माश्रिते दिवमार्यो गतो राजा यायजूक: सतां मतः
Verse 6
निष्क्रान्तमात्रे भवति ससीते सहलक्ष्मणे दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्
Verse 7
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ
Verse 8
प्रियेण किल दत्तं हि पितृलोकेषु राघव अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः
Verse 9
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् त्वया विहीन स्तव शोकमग्नस्त्वां संस्मरन्नस्तमितः पिता ते
0:000:00
Speed: