Book 2 • Chapter 100
Sarga 100
76 verses
Verse 1
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ददर्श रामो दुर्दर्शं युगान्ते भास्करंयथा
Verse 2
कथंचिदभिविज्ञाय विवर्णवदनं कृशम् भ्रातरं भरतं रामः परिजग्राह बाहुना
Verse 3
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः
Verse 4
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि
Verse 5
चिरस्य बत पश्यामि दूराद्भरतमागतम् दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः
Verse 6
कच्चिद्धारयते तात राजा यत्त्वमिहाऽगतः कच्चिन्न दीन स्सहसा राजा लोकान्तरं गतः
Verse 7
कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम्
Verse 8
कच्चिद्धशरथो राजा कुशली सत्यसंङ्गरः राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः
Verse 9
स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते
Verse 10
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती सुखिनी कच्चिदार्या च देवी नन्दति कैकयी
Verse 11
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः
Verse 12
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः हुतं च होष्यमाणं च काले वेदयते सदा
Verse 13
कच्चिद्देवान्पित्रून् मातृ़र्गुरून्पितृसमानपि वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे
Verse 14
इष्वस्त्रवरसम्पन्नमर्थशास्त्र विशारदम् सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे
Verse 15
कच्चिदात्मसमा श्शूरा श्श्रुतवन्तो जितेन्द्रियाः कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः
Verse 16
मन्त्रो विजयमूलं हि राज्ञां भवति राघव सुसंवृतो मन्त्रधरैरमात्यै श्शास्त्रकोविदैः
Verse 17
कच्चिन्निद्रावशं नैषीः कच्चित् कालेऽवबुध्यसे कच्चिच्चापररात्रेषु चिन्तियस्यर्थनैपुणम्
Verse 18
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति
Verse 19
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव
Verse 20
कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः
Verse 21
कच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः त्वया वा तवामात्यैर्बुध्यते तात मन्त्रितम्
Verse 22
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत्
Verse 23
सहस्राण्यपि मूर्खाणां युद्युपास्ते महीपतिः अथवाप्ययुतान्येव नास्ति तेषु सहायता
Verse 24
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्
Verse 25
कच्चिन्मुख्या महात्स्वेव मध्यमेषु च मध्यमाः जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः
Verse 26
अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन् श्रेष्ठांछ्रेष्ठेषुकच्चित्वं नियोजयसि कर्मसु
Verse 27
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत
Verse 28
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः
Verse 29
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् शूरमैश्वर्यकामं च यो न हन्ति स हन्यते
Verse 30
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः कुलीनश्चानुरक्तश्च दक्षस्सेनापतिः कृतः
Verse 31
बलवन्तश्च कच्चित्ते मुख्या युध्दविशारदाः दृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः
Verse 32
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे
Verse 33
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थ स्सुमहान् स्मृतः
Verse 34
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः कच्चित्प्राणां स्तवार्थेषु सन्त्यजन्ति समाहिताः
Verse 35
कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् यथोक्तवादी दूतस्ते कृतो भरत पण्डितः
Verse 36
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः
Verse 37
कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा दुर्बलाननवज्ञाय वर्तसे रिपुसूदन
Verse 38
कच्चिन्न लौकायतिकान्ब्राह्मणांस्तात सेवसे अनर्थकुशला ह्येते बालाः पण्डितमानिनः
Verse 39
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते
Verse 40
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः सत्यनामां दृढ द्वारां हस्त्यश्वरथसङ्कुलाम् ब्राह्मणैः क्षत्रियैर्वैश्यै स्स्वकर्मनिरतैस्सदा जितेन्द्रियैर्महोत्साहैर्वृतामार्यै स्सहस्रशः प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि
Verse 41

Verse 42

Verse 43
कच्चिच्चैत्यशतैर्जुष्ट स्सुनिविष्टजनाकुलः देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः प्रहृष्टनरनारीकस्समाजोत्सवशोभितः सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः अदेवमातृको रम्य श्श्वापदैः परिवर्जितः परित्यक्तो भयैस्सर्वैः खनिभिश्चोपशोभितः विवर्जितो नरैः पापैर्मम पूर्वै स्सुरक्षितः कच्चिज्जनपदस्स्फीतः सुखं वसति राघव
Verse 44

Verse 45

Verse 46

Verse 47
कच्चित्ते दयितास्सर्वे कृषिगोरक्षजीविनः वार्तायां संश्रितस्तात लोको हि सुखमेधते
Verse 48
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः
Verse 49
कच्चिस्त्रिय स्सान्त्वयसि कच्चित्ताश्च सुरक्षिताः कच्चिन्न श्रद्धास्यासां कच्चिद्गुह्यं न भाषसे
Verse 50
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि
Verse 51
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे
Verse 52
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्
Verse 53
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः
Verse 54
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः अपात्रेषु न ते कच्चित्कोशो गच्छति राघव
Verse 55
देवतार्थे च पित्रर्थेब्राह्मणाभ्यागतेषु च योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः
Verse 56
कच्चिदार्यो विशुद्धात्मा क्षारित श्चापरकर्मणा अपृष्ट श्शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः
Verse 57
गृहीतश्चैव पृष्टश्च काले दृष्टस्सकारणः कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ
Verse 58
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः
Verse 59
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव तानि पुत्रान्पशून्घ्नन्ति प्रीत्यर्थमनुशासतः
Verse 60
कच्चिद्वृद्धांश्च बालांश्च वैद्यामुख्यांश्च राघव दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे
Verse 61
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् चैत्यांश्च सर्वान्सिध्दार्थान्ब्राह्मणांश्च नमस्यसि
Verse 62
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः उभौ वा प्रीतिलोभेन कामेन च न बाधसे
Verse 63
कच्चिदर्थं च धर्मं च कामं च जयतां वर विभज्य काले कालज्ञ सर्वान्वरद सेवसे
Verse 64
कच्चित्ते ब्राह्मणा श्शर्म सर्वशास्त्रार्थकोविदाः आशंसन्ते महाप्राज्ञ पौरजानपदैस्सह
Verse 65
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः कच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश
Verse 66

Verse 67

Verse 68
दशपञ्चचतुर्वर्गान्सप्तवर्गं च तत्त्वतः अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव इन्द्रियाणां जयं बुद्ध्या षाड्गुण्यं दैवमानुषम् कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे
Verse 69

Verse 70

Verse 71
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः
Verse 72
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्
Verse 73
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव आयुष्या च यशस्या च धर्मकामार्थ संहिता
Verse 74
यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः तां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा
Verse 75
कच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव कच्चिदाशंसमानेभ्यो मित्रेभ्य स्सम्प्रयच्छसि
Verse 76
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत स्स्वर्गमुपैति विद्वान्
0:000:00
Speed: