Book 2 • Chapter 99
Sarga 99
42 verses
Verse 1
निविष्टायां तु सेनायामुत्सुको भरतस्तदा जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्
Verse 2
ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय इति त्वरितमग्रे स जगाम गुरुवत्सलः
Verse 3
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत रामदर्शनजस्तर्षो भरतस्येव तस्य च
Verse 4
गच्छन्नेवाथ भरतस्तापसालय संस्थिताम् भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह
Verse 5
शालायास्त्वग्रत स्तस्या ददर्श भरत स्तदा काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च
Verse 6
स लक्ष्मणस्य रामस्य ददर्शाऽश्रममीयुषः कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित्क्वचित्
Verse 7
ददर्श वने तस्मिन्महत स्सञ्चयान्कृतान् मृगाणां महिषाणां च करीषै शशीतकारणात्
Verse 8
गच्छन्नेव महाबाहुर्द्युतिमान्भरत स्तदा शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः
Verse 9
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः
Verse 10
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् अभिज्ञानकृतः पन्था अकाले गन्तुमिच्छता
Verse 11
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्
Verse 12
यमेवाधातुमिच्छन्ति तापसा स्सततं वने तस्यासौ दृश्यते धूम स्सङ्कुलः कृष्णवर्त्मनः
Verse 13
अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्
Verse 14
अथ गत्वा मुहूर्तन्तु चित्रकूटं स राघवः मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्
Verse 15
जगत्यां पुरषव्याघ्र आस्ते वीरासने रतः जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम्
Verse 16
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः सर्वान्कामान्परित्यज्य वने वसति राघवः
Verse 17
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च
Verse 18
एवं संविलपं स्तस्मिन्वने दशरथात्मजः ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव महारजतवासोभ्यामसिभ्यां च विराजिताम् रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् गोधाङ्गुळित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः अरिसंघैरनाधृष्यां मृगै स्सिंहगुहा मिव
Verse 19
एवं संविलपं स्तस्मिन्वने दशरथात्मजः ददर्श महातीं पुण्यां पर्णशालां मनोरमाम् सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव महारजतवासोभ्यामसिभ्यां च विराजिताम् रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् गोधाङ्गुळित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः अरिसंघैरनाधृष्यां मृगै स्सिंहगुहा मिव
Verse 20

Verse 21

Verse 22

Verse 23

Verse 24
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ददर्श भरतस्तत्र पुण्यां रामनिवेशने
Verse 25
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् उटजे राममासीनं जटामण्डलधारिणम्
Verse 26
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ददर्श राममासीनमभितः पावकोपमम् सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् पृथिव्यास्सागरान्तायाः भर्तारं धर्मचारिणम् उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च
Verse 27

Verse 28

Verse 29
तं दृष्ट्वा भरत श्श्रीमान् दुःखशोकपरिप्लुतः अभ्यधावत धर्मात्मा भरतः कैकेयी सुतः
Verse 30
दृष्ट्वैव विललापाऽर्तो बाष्पसन्दिग्धया गिरा अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत्
Verse 31
य स्संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् वन्यैर्मृगैरुपासीन स्सोऽयमास्ते ममाग्रजः
Verse 32
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्
Verse 33
अधारयद्यो विविधाश्चित्रास्सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघवः कथम्
Verse 34
यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः शरीरक्लेशसम्भूतं स धर्मं परिमार्गते
Verse 35
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते
Verse 36
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः धिग्जीवितं नृशंसस्य मम लोकविगर्हितम्
Verse 37
इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः पादावप्राप्य रामस्य पपात भरतो रुदन्
Verse 38
दुःखाभितप्तो भरतो राजपुत्रो महाबलः उक्त्वाऽर्येति सकृद्दीनं पुनर्नोवाच किञ्चन
Verse 39
बाष्पाभिहतकण्ठश्च प्रेक्ष्य रामं यशस्विनम् आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्तदा
Verse 40
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत्
Verse 41
ततस्सुमन्त्रेण गुहेन चैव समीयतु राजसुतावरण्ये दिवाकरश्चैव निशाकरश्च यथाऽम्बरे शुक्रबृहस्पतिभ्याम्
Verse 42
तान्पार्थिवान्वारणयूथपाभान्समागतां स्तत्र महत्यरण्ये वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम्
0:000:00
Speed: