🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 98

Sarga 98

18 verses

Verse 1
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः अभिगन्तुं  काकुत्थ्समियेष गुरुवर्तकम्
Verse 2
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्
Verse 3
क्षिप्रं वनमिदं सौम्य नरसङ्घै स्समन्ततः लुब्धैश्च सहितैरेभि स्त्वमन्वेषितुमर्हसि
Verse 4
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा समन्वेषतु काकुत्स्थमस्मिन् परिवृतस्स्वयम्
Verse 5
अमात्यै स्सह पौरैश्च गुरुभिश्च द्विजातिभिः वनं सर्वं चरिष्यामि पद्भ्यां परिवृत स्स्वयम्
Verse 6
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् वैदेहीं  महाभागां  मे शान्तिर्भविष्यति
Verse 7
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् भ्रातुः पद्मपलाशाक्षं  मे शान्तिर्भविष्यति
Verse 8
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ शिरसा धारयिष्यामि  मे शान्तिर्भविष्यति
Verse 9
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः अभिषेकजलक्लिन्नो  मे शान्तिर्भविष्यति
Verse 10
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् मुखं पश्यति रामस्य राजीवाक्षं महाद्युति
Verse 11
कृतकृत्या महाभागा वैदेही जनकात्मजा भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति
Verse 12
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने
Verse 13
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् यदध्यास्ते महातेजा राम श्शस्त्रभृतां वरः
Verse 14
एवमुक्त्वा महातेजा भरतः पुरषर्षभः पद्भ्यामेव महाबाहुः प्रविवेश महाद्वनम्
Verse 15
 तानि द्रुमजालानि जातानि गिरिसानुषु पुष्पिताग्राणि मध्येन जगाम वदतां वरः
Verse 16
 गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्
Verse 17
तं दृष्ट्वा भरत श्रीमान्मुमोद सह बान्धवः अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः
Verse 18
 चित्रकूटे तु गिरौ निशम्यव रामाश्रमं पुण्यजनोपपन्नम् गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा
0:000:00
Speed: