Book 2 • Chapter 97
Sarga 97
31 verses
Verse 1
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्
Verse 2
किमत्र धनुषा कार्यमसिना वा सचर्मणा महेष्वासे महाप्राज्ञे भरते स्वयमागते
Verse 3
पितुस्सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् किं करिष्यामि राज्येन सापवादेन लक्ष्मण
Verse 4
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् नाहं तत्प्रतिगृह्णीयां भक्षान्विषकृतानिव
Verse 5
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते
Verse 6
भ्रात्रूणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण राज्यमप्यहमिच्छामि सत्येनाऽयुधमालभे
Verse 7
नेयं मम मही सौम्य दुर्लभा सागराम्बरा न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण
Verse 8
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद भवेन्मम सुखं किञ्चिद्भस्म तत्कुरुतां शिखी
Verse 9
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् जानक्यासहितं वीर त्वया च पुरुषर्षभ स्नेहेनाऽक्रान्तहृदय श्शोकेनाकुलितेन्द्रियः द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः
Verse 10
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् जानक्यासहितं वीर त्वया च पुरुषर्षभ स्नेहेनाऽक्रान्तहृदय श्शोकेनाकुलितेन्द्रियः द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः
Verse 11
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् जानक्यासहितं वीर त्वया च पुरुषर्षभ स्नेहेनाऽक्रान्तहृदय श्शोकेनाकुलितेन्द्रियः द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः
Verse 12
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् प्रसाद्य पितरं श्रीमार्नाज्यं मे दातुमागतः
Verse 13
प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति अस्मासु मनसाऽप्येष नाप्रियं किञ्चिदाचरेत्
Verse 14
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे
Verse 15
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः अहं ह्यप्रियमुक्त स्स्यां भरतस्याप्रिये कृते
Verse 16
कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः
Verse 17
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्
Verse 18
उच्यमानोऽपि भरतो मया लक्ष्मण तद्वचः राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति
Verse 19
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया
Verse 20
तद्वाक्यं लक्ष्मण श्श्रुत्वा व्रीलितः प्रत्युवाच ह त्वां मन्ये द्रष्टुमायातः पिता दशरथ स्स्वयम्
Verse 21
व्रीलितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः
Verse 22
अथवा नौ ध्रुवं मन्ये मन्यमान स्सुखोचितौ वनवासमनुध्याय गृहाय प्रतिनेष्यति
Verse 23
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् पिता मे राघव श्श्रीमान्वनादादाय यास्यति
Verse 24
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ वायुवेगसमौ वीर जवनौ तुरगोत्तमौ
Verse 25
स एष सुमहाकायः कम्पते वाहिनीमुखे नागश्शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः
Verse 26
न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम् | पितुर्दिव्यं महाबाहो संशयो भवतीह मे
Verse 27
वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह
Verse 28
अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः
Verse 29
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति समन्तात्तस्य शैलस्य सेना वासमकल्पयत्
Verse 30
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला
Verse 31
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता
0:000:00
Speed: