🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 96

Sarga 96

31 verses

Verse 1
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन्
Verse 2
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना एवमास्ते  धर्मात्मा सीतया सह राघवः
Verse 3
तथा तत्राऽसतस्तस्य भरतस्यौपयायिनः सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्पृशौ
Verse 4
एतस्मिन्नन्तरे त्रस्ता श्शब्देन महता ततः अर्दिता यूथपा मत्ता स्सयूथा दुद्रुवुर्दिशः
Verse 5
 तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः तां श्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत
Verse 6
तांश्च विद्रुवतो दृष्ट्वा तं  श्रुत्वा  निस्वनम् उवाच राम स्सौमित्रिं लक्ष्मणं दीप्ततेजसम्
Verse 7
हन्त लक्ष्मण पश्येह सुमित्रासुप्रजास्त्वया भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः
Verse 8
गजयूथानि वाऽरण्ये महिषा वा महावने वित्रासिता मृगा स्सिंहै स्सहसा प्रद्रुता दिशः
Verse 9
राजा वा राजपुत्रो वा मृगयामटते वने अन्यद्वा श्वापदं किञ्चित्सौमित्रे ज्ञातुमर्हसि
Verse 10
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण सर्वमेतद्यथातत्त्वमचिरात् ज्ञातुमर्हसि
Verse 11
 लक्ष्मण स्सन्त्वरित स्सालमारुह्य पुष्पितम् प्रेक्षमाणो दिश स्सर्वाः पूर्वां दिशमुदैक्षत
Verse 12
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः
Verse 13
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् शशंस सेनां रामाय वचनं चेदमब्रवीत्
Verse 14
अग्निं संशमयत्वार्य स्सीता  भजतां गुहाम् सज्यं कुरुष्व चापं  शरांश्च कवचं तथा
Verse 15
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच  अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्
Verse 16
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् दिधक्षन्निव तां सेनां रुषितः पावको यथा
Verse 17
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् आवां हन्तुं समभ्येति कैकेय्या भरतस्सुतः
Verse 18
एष वै सुमहाञ्छ्रीमान्विटपी सम्प्रकाशते विराजत्युद्गतस्कन्धं कोविदारध्वजो रथे
Verse 19
असौ हि सुमहास्कन्धो विटपी  महाद्रुमः विराजते महासैन्ये कोविदारध्वजो रथे
Verse 20
भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः
Verse 21
गृहीतधनुषौ चावां गिरिं वीर श्रयावहै अथवेहैव तिष्ठाव स्सन्नद्धावुद्यतायुधौ
Verse 22
अपि नौ वशमागच्छेत्कोविदारध्वजो रणे अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् त्वया राघव सम्प्राप्तं सीतया  मया तथा
Verse 23
यन्निमित्तं भवान्राज्याच्छ्युतो राघव शाश्वतात् सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे
Verse 24
भरतस्य वधे दोषं नाहं पश्यामि राघव पूर्वापकारिणं हत्वा  ह्यधर्मेण युज्यते
Verse 25
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम्
Verse 26
अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम्
Verse 27
कैकेयीं  वधिष्यामि सानुबन्धां सबान्धवाम् कलुषेणाद्य महता मेदिनी परिमुच्यताम्
Verse 28
अद्येमं संयतं क्रोधमसत्कारं  मानद मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्
Verse 29
अद्यैतच्छित्रकूटस्य काननं निशितै श्शरैः छिन्दञ्चत्रुशरीराणि करिष्ये शोणितोक्षितम्
Verse 30
शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया
Verse 31
शराणां धनुषश्चाहमनृणोऽस्मिन्महावने ससैन्यं भरतं हत्वा भविष्यामि  संशयः
0:000:00
Speed: