Book 2 • Chapter 95
Sarga 95
19 verses
Verse 1
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्
Verse 2
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् विदेहराजस्य सुतां रामो राजीवलोचनः
Verse 3
विचित्रपुलिनां रम्यां हंससारससेविताम् कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम्
Verse 4
नानाविधैस्तीररुहै र्वृतां पुष्पफलद्रुमैः राजन्तीं राजराजस्य नलिनीमिव सर्वतः
Verse 5
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे
Verse 6
जटाजिनधराः काले वल्कलोत्तरवाससः ऋषय स्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये
Verse 7
आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः एते परे विशालाक्षि मुनय स्संशितव्रताः
Verse 8
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्
Verse 9
चिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्
Verse 10
निर्धूतान्वायुना पश्य विततान्पुष्पसञ्चयान् पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान्
Verse 11
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः अधिरोहन्ति कल्याणि निष्कूजन्त श्शुभा गिरः
Verse 12
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने अधिकं पुरवासाच्च मन्ये तव च दर्शनात्
Verse 13
विधूतकलुषै स्सिद्धैस्तपोदमशमान्वितैः नित्यविक्षोभितजलां विगाहस्व मया सह
Verse 14
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् कमलान्यवमज्जन्ती पुष्कराणि च भामिनि
Verse 15
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्
Verse 16
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम
Verse 17
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः नायोध्यायैन राज्याय स्पृहयेऽद्य त्वया सह
Verse 18
इमांहि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः सुपुष्पितां पुष्पभरैरलङ्कृतां नसोऽस्ति य स्स्यान्न गतक्लम स्सुखी
Verse 19
इतीव रामो बहुसङ्गतं वचः प्रियासहाय स्सरितं प्रति ब्रुवन् चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः
0:000:00
Speed: