Book 2 • Chapter 94
Sarga 94
27 verses
Verse 1
दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः वैदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् भार्याममरसङ्काश श्शचीमिव पुरन्दरः
Verse 2
दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः वैदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् भार्याममरसङ्काश श्शचीमिव पुरन्दरः
Verse 3
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्
Verse 4
पश्येममचलं भद्रे नानाद्विजगणायुतम् शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्
Verse 5
केचिद्रजतसङ्काशाः केचित्क्षतजसंनिभाः पीतमाञ्जिष्टवर्णाश्च केचिन्मणिवरप्रभाः पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः
Verse 6
केचिद्रजतसङ्काशाः केचित्क्षतजसंनिभाः पीतमाञ्जिष्टवर्णाश्च केचिन्मणिवरप्रभाः पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः
Verse 7
नानामृगगणद्वीपितरर्क्ष्वृक्षगणैर्वुतः अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः
Verse 8
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुक वेणुभिः काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः
Verse 9

Verse 10

Verse 11
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् किन्नरान् द्वन्द्वशो भद्रे रममाणान्मनस्विनः
Verse 12
शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान्मनोरमान्
Verse 13
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् स्रवद्भिर्भात्ययं शैल स्स्रवन्मद इव द्विपः
Verse 14
गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत्
Verse 15
यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति
Verse 16
बहुपुष्पफले रम्ये नानाद्विजगणायुते विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि
Verse 17
अनेन वनवासेन मया प्राप्तं फलद्वयम् पितुश्चानृणता धर्मे भरतस्य प्रियं तथा
Verse 18
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह पश्यन्ती विविधान्भावान्मनोवाक्कायसम्मतान्
Verse 19
इदमेवामृतं प्राहू राज्ञि राजर्षयः परे वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः
Verse 20
शिला श्शैलस्य शोभन्ते विशाला श्शतशोऽभितः बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः
Verse 21
निशिभान्त्यचलेन्द्रस्य हुताशनशिखा इव ओषध्यः स्वप्रभालक्ष्म्या भ्राजमाना स्सहस्रशः
Verse 22
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि
Verse 23
भित्त्वेव वसुधां भाति चित्रकूटस्समुत्थितः चित्रकूटस्य कूटोऽसौ दृश्यते सर्वत श्शुभः
Verse 24
कुष्ठस्थगरपुन्नाग भूर्जपत्रोत्तरच्छदान् कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान्
Verse 25
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः कामिभिर्वनिते पश्य फलानि विविधानि च
Verse 26
वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः
Verse 27
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः
0:000:00
Speed: