Book 2 • Chapter 93
Sarga 93
27 verses
Verse 1
तया महत्या यायिन्या ध्वजिन्या वनवासिनः अर्दिता यूथपा मत्ताः सयूथास्सम्प्रदुद्रुवुः
Verse 2
ऋक्षाः पृषतसङ्घाश्च रुरवश्च समन्ततः दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च
Verse 3
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः वृतो महत्या नादिन्या सेनया चतुरङ्गया
Verse 4
सागरौघनिभा सेना भरतस्य महात्मनः महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः
Verse 5
तुरङ्गौघैरवतता वारणैश्च महाजवैः अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः
Verse 6
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः उवाच भरत श्श्रीमान् वसिष्ठं मन्त्रिणां वरम्
Verse 7
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्
Verse 8
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी एतत्प्रकाशते दूरान्नीलमेघनिभं वनम्
Verse 9
गिरे स्सानूनि रम्याणि चित्रकूटस्य सम्प्रति वारणैरवमृद्यन्ते मामकै पर्वतोपमैः
Verse 10
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु नीला इवातपापाये तोयं तोयधरा घनाः
Verse 11
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् मृगैस्समन्तादाकीर्णं मकरैरिव सागरम्
Verse 12
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः वायुप्रविद्धा श्शरदि मेघराजिरिवाम्बरे
Verse 13
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः
Verse 14
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा
Verse 15
खुरैरुदीरितो रेणुर्दावं प्रच्छाद्य तिष्ठति तं वहत्यनिल श्श्रीघ्रं कुर्वन्निव मम प्रियम्
Verse 16
स्यन्दनांस्तुरगोपेतान्सूतमुख्यै रधिष्ठितान् एतान्सम्पततश्श्रीघ्रं पश्य शत्रुघ्न कानने
Verse 17
एतान्वित्रासितान्पश्यबर्हिणः प्रियदर्शनान् एतमाविशत श्श्रीघ्रमधिवासं पतत्रिणः
Verse 18
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मे तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा
Verse 19
मृगा मृगीभिः सहिता बहवः पृषता वने मनोज्ञरूपा दृश्यन्ते कुसुमैरिव चित्रिताः
Verse 20
साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ
Verse 21
भरतस्य वचश्श्रुत्वा पुरुषाश्शस्त्रपाणयः विविशु स्तद्वनं शूरा धूमं च ददृशु स्ततः
Verse 22
ते समालोक्य धूमाग्रमूचुर्भरतमागताः नामनुष्ये भवत्यग्नि र्व्यक्तमत्रैव राघवौ
Verse 23
अथ नाऽत्र नरव्याघ्रौ राजपुत्रौ परन्तपौ अन्ये रामोपमा स्सन्ति व्यक्तमत्र तपस्विनः
Verse 24
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः
Verse 25
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च
Verse 26
एवमुक्ता स्ततस्सर्वे तत्र तस्थुः समन्तः भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात्
Verse 27
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणाऽपि च भूमिमग्रतः बभूव हृष्टा न चिरेण जानती प्रियस्य रामस्य समागमं तदा
0:000:00
Speed: