🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 92

Sarga 92

39 verses

Verse 1
ततस्तां रजनीमुष्य भरतस्सपरिच्छदः कृतातिथ्यो भरद्वाजं कामादभिजगाम 
Verse 2
तं ऋषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चाऽगतम् हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत
Verse 3
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ
Verse 4
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य  आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम्
Verse 5
ससुखोषितोऽस्मि भगवन्समग्रबलवाहनः तर्पितस्सर्वकामैश्च सामात्यो बलवत्त्वया
Verse 6
अपेतक्लमसन्तापा स्सुभिक्षास्सुप्रतिश्रयाः अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः
Verse 7
आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तमः समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा
Verse 8
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः आचक्ष्व कतमो मार्गः कियानिति  शंस मे
Verse 9
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् प्रत्युवाच महातेजा भरद्वाजो महातपाः
Verse 10
भरतार्धतृतीयेषु योजनेष्वजने वने चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः
Verse 11
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी पुष्पितद्रुमसञ्छन्ना रम्यपुष्पितकानना
Verse 12
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम्
Verse 13
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्
Verse 14
प्रयाणमिति तच्छ्रुत्वा रजराजस्य योषितः हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन्
Verse 15
वेपमाना कृशा दीना सह देव्या सुमित्रया कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः
Verse 16
असमृद्धेन कामेन सर्वलोकस्य गर्हिता कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा
Verse 17
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् अदूरार्भरतस्यैव तस्थौ दीनमनास्तदा
Verse 18
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः विशेषं ज्ञातुमिच्छामि मात्रूणां तव राघव
Verse 19
एवमुक्तस्तु भरतो भरद्वाजेन धीमता उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः
Verse 20
यामिमां भगवन् दीनां शोकानशनकर्शिताम् पितुर्हि महिषीं देवीं देवतामिव पश्यसि एषा तं पुरषव्याघ्रं सिंहविक्रान्तगामिनम् कौसल्या सुषुवे रामं धातारमदितिर्यथा
Verse 21
यामिमां भगवन् दीनां शोकानशनकर्शिताम् पितुर्हि महिषीं देवीं देवतामिव पश्यसि एषा तं पुरषव्याघ्रं सिंहविक्रान्तगामिनम् कौसल्या सुषुवे रामं धातारमदितिर्यथा
Verse 22
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ
Verse 23
अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ
Verse 24
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ राजपुत्रविहीनश्च स्वर्गं दशरथो गतः क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ऐश्वर्यकामां कैकेयीमनार्यामार्यारूपिणीम् ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् यतोमूलं हि पश्यामि व्यसनं महदात्मनः
Verse 25

Verse 26

Verse 27
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा  निश्स्वास ताम्राक्षो नागः कृद्ध इव श्वसन्
Verse 28
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्
Verse 29
 दोषेणावगन्तव्या कैकेयी भरत त्वया रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति
Verse 30
देवानां दानवानां  ऋषीणां भावितात्मनाम् हितमेव भविष्यद्धि रामप्रव्राजनादिह
Verse 31
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् आमन्त्र्य भरत स्सैन्यं युज्यतामित्यचोदयत्
Verse 32
ततो वाजिरथान्युक्तान् दिव्यान्हेमपरिष्कृतान् अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः
Verse 33
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः जीमूता इव घर्मान्ते सघोषास्सम्प्रतस्थिरे
Verse 34
विविधान्यपि यानानि महन्ति  लघूनि  प्रययु स्सुमहार्हाणि पादै रेव पदातयः
Verse 35
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा
Verse 36
चन्द्रार्कतरुणाभासां निर्युक्तां शिबिकां शुभाम् आस्थाय प्रययौ श्रीमान्भरत स्सपरिच्छदः
Verse 37
सा प्रयाता महासेना गजवाजिरथाकुला दक्षिणां दिशमावृत्य महामेघ इवोत्थितः वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः गङ्गायाः परवेलायां गिरिष्वपि नदीषु 
Verse 38
सा प्रयाता महासेना गजवाजिरथाकुला दक्षिणां दिशमावृत्य महामेघ इवोत्थितः वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः गङ्गायाः परवेलायां गिरिष्वपि नदीषु 
Verse 39
सा सम्प्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र
0:000:00
Speed: