🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 91

Sarga 91

83 verses

Verse 1
कृतबुद्धिं निवासाय तत्रैव  मुनिस्तदा भरतं कैकयीपुत्रमातिथ्येनन्यमन्त्रयत्
Verse 2
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् पाद्यमर्घ्यं तथाऽतिथ्यं वने यदुपपद्यते
Verse 3
अथोवाच भरद्वाजो भरतं प्रहसन्निव जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित्
Verse 4
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् मम प्रीतिर्यथारूपा तथार्हो मनुजर्षभ
Verse 5
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभः
Verse 6
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात्
Verse 7
राज्ञा  भगवन्नित्यं राजपुत्रेण वा सदा यत्नतः परिहर्तव्या विषयेषु तपस्विनः
Verse 8
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः प्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम्
Verse 9
ते वृक्षानुदकं भूमिमाश्रमेषूटजां स्तथा  हिंस्युरिति तेनाऽहमेक एव समागतः
Verse 10
आनीयतामितस्सेनेत्याज्ञप्तः परमर्षिणा ततस्तु चक्रे भरतस्सेनायास्समुपागमम्
Verse 11
अग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य  आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्
Verse 12
आह्वये विश्वकर्माणमहं त्वष्टारमेव  आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
Verse 13
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
Verse 14
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव  पृथिव्यामन्तरिक्षे  समायान्त्वद्य सर्वशः
Verse 15
अन्या स्रवन्तु मैरेयं सुरामन्यास्सुविष्ठिताम् अपरा श्चोदकं शीतमिक्षुकाण्डरसोपमम्
Verse 16
आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः
Verse 17
घृताचीमथ विश्वाचीं मिश्रकेशीमलंबुसाम् नागदन्तां  हेमां  हिमामद्रिकृतस्थलाम्
Verse 18
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः
Verse 19
वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु 
Verse 20
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् भक्ष्यंभोज्यं  चोष्यं  लेह्यं  विविधं बहु
Verse 21
विचित्राणि  माल्यानि पादपप्रच्युतानि  सुरादीनि  पेयानि मांसानि विविधानि 
Verse 22
एवं समाधिना युक्तस्तेजसाऽप्रतिमेन  शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः
Verse 23
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्
Verse 24
मलयं दर्दुरं चैव ततस्स्वेदनुदोऽनिलः उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखश्शिवः
Verse 25
ततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे
Verse 26
प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः जगुश्च देवगन्धर्वा वीणाः प्रमुमुचुस्स्वरान्
Verse 27
 शब्दो द्यां  भूमिं  प्राणिनां श्रवणानि  विवेशोच्चरितश्श्लक्ष्णस्समो लयसमन्वितः
Verse 28
तस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम् ददर्श भारतं सैन्यं विधानं विश्वकर्मणः
Verse 29
बभूव हि समा भूमिस्समन्तात्पञ्चयोजना शाद्वलैर्भहुभिश्चन्ना नीलवैढूर्यसन्निभैः
Verse 30
तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः आमलक्यो बभूवुश्च चूताश्च फलभूषणाः
Verse 31
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् आजगाम नदी दिव्या तीरजैर्भहुभिर्वृता
Verse 32
चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम् हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि 
Verse 33
सितमेघनिभं चापि राजवेश्म सुतोरणम् दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् चतुरश्रमसंबाधं शयनासनयानवत् दिव्यैस्सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् क्लुप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम्
Verse 34

Verse 35

Verse 36
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा वेश्म तद्रत्नसम्पूर्णं भरतः कैकयीसुतः
Verse 37
अनुजग्मुश्च तं सर्वे मन्त्रिणस्सपुरोहिताः बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम्
Verse 38
तत्र राजासनं दिव्यं व्यजनं छत्रमेव  भरतो मन्त्रिभिस्सार्धमभ्यवर्तत राजवत्
Verse 39
आसनं पूजयामास रामायाभिप्रणम्य  वालव्यजनमादाय न्यषीदत्सचिवासने
Verse 40
आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः ततस्सेनापतिः पश्चात्प्रशास्ताच निषेदतुः
Verse 41
तत स्तत्र मुहूर्तेन नद्यः पायसकर्दमाः उपातिष्ठन्त भरतं भरद्वाजस्य शासनात्
Verse 42
तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः रम्याश्चावसधा दिव्या ब्रह्मणस्तु प्रसादजा:
Verse 43
तेनैव  मूहूर्तेन दिव्याऽभरणभूषिताः आगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः
Verse 44
सुवर्णमणिमुक्तेन प्रवालेन  शोभिताः आगुर्विंशतिसाहास्राः कुबेरप्रहिताः स्त्रियः
Verse 45
याभिर्गृहीतः पुरुषस्सोन्माद इव लक्ष्यते आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः
Verse 46
नारदस्तुम्भुरुर्गोपः प्रवरास्सूर्यवर्चसः एते गन्धर्वराजानो भरतस्याग्रतो जगुः
Verse 47
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात्
Verse 48
यानि माल्यानि देवेषु यानि चैत्ररथे वने प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात्
Verse 49
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः अश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात्
Verse 50
ततस्सरलतालाश्च तिलका नक्तमालकाः प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः
Verse 51
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः मालती मल्लिका जातिर्याश्चान्याः कानने लताः प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन्
Verse 52
सुरास्सुरापाः पिबत पायसं  बुभुक्षिताः मांसानि  सुमेध्यानि भक्ष्यन्तां यावदिच्छथ
Verse 53
सुरास्सुरापाः पिबत पायसं  बुभुक्षिताः मांसानि  सुमेध्यानि भक्ष्यन्तां यावदिच्छथ
Verse 54
उच्छाद्य स्नापयन्ति स्म नदीतीरेष वल्गुषु अप्येकमेकं पुरषं प्रमदास्सप्त चाष्ट 
Verse 55
संवाहन्त्यस्समापेतुर्नार्यो रुचिरलोचनाः परिमृज्य तथाऽन्योन्यं पाययन्ति वराङ्गनाः
Verse 56
हयान् गजान् खारानुष्ट्रान्तथैव सुरभेस्सुतान् अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि
Verse 57
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् इक्ष्वाकुवरयोधानां चोदयन्तो महाबला:
Verse 58
नाश्वबन्धोऽश्वमाजानान्नगजं कुञ्जरग्रहः मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ
Verse 59
तर्पितास्सर्वकामैस्ते रक्तचन्दनरूषिताः अप्सरोगणसंयुक्तास्सैन्या वाचमुदैरयन्
Verse 60
नैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान् कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्
Verse 61
इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन्
Verse 62
संम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः भरतस्यानुयातारस्स्वर्गोऽयमिति चाब्रुवन्
Verse 63
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म  सैनिकाः समन्तात्परिधावन्ति माल्योपेतास्सहस्रशः
Verse 64
ततो भुक्तवतां तेषां तदन्नममृतोपमम् दिव्यानुद्वीक्ष्य भक्ष्यां स्तानभवद्भक्षणे मतिः
Verse 65
प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः बभूवुस्ते भृशं दृप्तास्सर्वे चाहतवाससः
Verse 66
कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः बभूवुस्सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत्
Verse 67
नाऽशुक्लवासा स्तत्राऽसीत्क्षुधितो मलिनोऽपि वा रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत
Verse 68
आजैश्चापि  वाराहैर्निष्ठानवरस़ञ्चयैः फलनिर्यूह संसिद्दैस्सूपैर्गन्ध रसान्वितैः पुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः ददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः
Verse 69
आजैश्चापि  वाराहैर्निष्ठानवरस़ञ्चयैः फलनिर्यूह संसिद्दैस्सूपैर्गन्ध रसान्वितैः पुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः ददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः
Verse 70
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ताश्चकामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः
Verse 71
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः
Verse 72
पात्रीणां  सहस्राणि स्थालीनां नियुतानि  न्यर्बुधानि  पात्राणि शातकुम्भमयानि  स्थाल्यः कुम्भ्य करम्भ्य श्च दधिपूर्णास्सुसंस्कृताः यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ह्रदाः पूर्णा रसालस्य दध्नश्श्वेतस्य चापरे बभूवुः पायसस्यान्ये शर्करायावसञ्चयाः
Verse 73

Verse 74

Verse 75
कल्कान्चूर्णकषायांश्च स्नानानि विविधानि  ददृशुर्भाजनस्थानि तीर्थेषु सरतां नराः
Verse 76
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः दर्पणापरिमृष्टांश्च वाससां चापि सञ्चयान् पादुकोपानहां चैव युग्मानिच सहस्रशः आञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि  धनूंषि  मर्मत्राणानि चित्राणि शयनान्यासनानि  प्रतिपानह्रदान्पूर्णन्खरोष्ट्रगजवाजिनाम् अवगाह्यसुतीर्थांश्चह्रदान् सोत्पलपुष्करान् 2.91.79 आकाश वर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान् नीपवैडूर्यवर्णांश्च मृदून्यवससञ्चयान् निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः
Verse 77

Verse 78

Verse 79

Verse 80

Verse 81
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् दृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महर्षिणा
Verse 82
इत्येवं रममाणानां देवानामिव नन्दने भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत
Verse 83
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः
0:000:00
Speed: