Book 2 • Chapter 90
Sarga 90
24 verses
Verse 1
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः वसानो वाससी क्षौमे पुरोधाय पुरोधसम्
Verse 2
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः वसानो वाससी क्षौमे पुरोधाय पुरोधसम्
Verse 3
तत स्सन्दर्शने तस्य भरद्वाजस्य राघवः मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम्
Verse 4
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः सञ्चचाऽलासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन्
Verse 5
समागम्य वसिष्ठेन भरतेनाभिवादितः अबुद्ध्यत महातेजास्सुतं दशरथस्य तम्
Verse 6
ताभ्यामर्घ्यं च पाद्यं च दत्वा पश्चात्फलानि च आनुपूर्व्याच्छ धर्मज्ञः पप्रच्छ कुशलं कुले
Verse 7
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु जानन् दशरथं वृत्तं न राजानमुदाहरत्
Verse 8
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु
Verse 9
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्
Verse 10
किमिहाऽगमने कार्यं तव राज्यं प्रशासतः एतदाचक्ष्व मे सर्वं न हि मे शुद्ध्यते मनः
Verse 11
सुषुवे यममित्रघ्नं कौसल्यानऽन्दवर्धनम् भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः वनवासी भवेतीह समाः किल चतुर्दश कच्छिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च
Verse 12

Verse 13

Verse 14
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह पर्यश्रुनयनो दुःखाद्वाचा संसज्जमानया
Verse 15
हतोऽस्मि यदि मामेवं भगवानपि मन्यते मत्तो न दोषमाशङ्के नैवं मामनुशास्तु हि 2.90.15
Verse 16
न चैतदिष्टं माता मे यदवोचन्मदन्तरे नाहमेतेन तुष्टश्च न तद्वचनमाददे
Verse 17
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम्
Verse 18
त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि शंस मे भगवन्रामः क्व सम्प्रति महीपतिः
Verse 19
वशिष्ठादिभिः ऋत्विग्भिर्याचितो भगवांस्ततः उवाच तं भरद्वाजः प्रसादाद्भरतं वचः 2.90.19
Verse 20
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे गुरुवृत्तिर्दमश्चैव साधूनामनुयायिता
Verse 21
जाने चैतन्मनस्थं ते दृढीकरणमस्त्विति अपृच्छं त्वां तथाऽत्यर्थं कीर्तिं समभिवर्धयन्
Verse 22
जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् असौ वसति ते भ्राता चित्रकूटे महागिरौ
Verse 23
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः एतन्मे कुरु सुप्राज्ञ कामं कामार्थकोविद
Verse 24
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपाऽत्मजः
0:000:00
Speed: