Book 2 • Chapter 89
Sarga 89
22 verses
Verse 1
उष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्
Verse 2
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्
Verse 3
जागर्मि नाहं स्वपिमि तमेवाऽर्यं विचिन्तयन् इत्येवमब्रवीद्भ्रात्ता शत्रुघ्नोऽपि प्रचोदितः
Verse 4
इति संवदतोरेवमन्योन्यं नरसिंहयोः आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत्
Verse 5
कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् कच्चित्ते सह सैन्यस्य तावत्सर्वमनामयम्
Verse 6
गुहस्य वचनं श्रुत्वा तत्तु स्नेहादुदीरितम् रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्
Verse 7
सुखा न श्शर्वरी राजन् पूजिताश्चापि ते वयम् गङ्गां तु नौभिर्बह्वीभिर्दाशास्सन्तारयन्तु नः
Verse 8
ततो गुह स्सन्त्वरितं श्रुत्वा भरतशासनम् प्रति प्रविश्य नगरं तं ज्ञातिजनमब्रवीत्
Verse 9
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वस्सदा नाव स्समनुकर्षध्वं तारयिष्याम वाहिनीम्
Verse 10
ते तथोक्ता स्समुत्थाय त्वरिता राजशासनात् पञ्चनावां शतान्याशु समानिन्युस्समन्ततः
Verse 11
अन्या स्स्वस्तिकविज्ञेया महाघंटाधरा वराः शोभमानाः पताकाभिर्युक्तवातास्सुसंहताः
Verse 12
तत स्स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्
Verse 13
तामारुरोह भरतश्शत्रुघ्नश्च महाबलः कौसल्या च सुमित्रा च याश्चान्या राजयोषितः पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये अनन्तरं राजदारास्तदैव शकटापणाः
Verse 14
तामारुरोह भरतश्शत्रुघ्नश्च महाबलः कौसल्या च सुमित्रा च याश्चान्या राजयोषितः पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये अनन्तरं राजदारास्तदैव शकटापणाः
Verse 15
आवासमादीपयतां तीर्थं चाप्यवगाहताम् भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्
Verse 16
पताकिन्यस्तु ता नावस्स्वयं दाशैरधिष्ठिताः वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः
Verse 17
नारीणामभिपूर्णा स्तु काश्चित् काश्चिच्च वाजिनाम् काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम्
Verse 18
ता स्स्म गत्वा परं तीरमवरोप्य च तं जनम् निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः
Verse 19
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः तरन्त स्स्म प्रकाशन्ते सध्वजा इव पर्वताः
Verse 20
नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरु स्तथापरे अन्ये कुम्भघटैस्तेरुरन्येतेरुश्च बाहुभिः
Verse 21
सा पुण्या ध्वजिनी गङ्गां दाशैस्सन्तारिता स्वयम् मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम्
Verse 22
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् द्रष्टुं भरद्वाजमृषिप्रवर्य मृत्विग्वृतस्सन्भरतः प्रतस्थे
0:000:00
Speed: