Book 2 • Chapter 88
Sarga 88
30 verses
Verse 1
तच्छ्रुत्वा निपुणं सर्वं भरत स्सह मन्त्रिभिः इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् अब्रवीज्जननी स्सर्वा इह तेन महात्मना शर्वरी शयिता भूमाविदमस्य विमर्दितम्
Verse 2

Verse 3
महाभागकुलीनेन महाभागेन धीमता जातो दशरथेनोर्व्यां न रामस्स्वप्तु मर्हति
Verse 4
अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये शयित्वा पुरुषव्याघ्रः कथं शेते महीतले
Verse 5
प्रासादाग्रविमानेषु वलभीषु च सर्वदा हैमराजतभौमेषु वरास्तरणशालिषु पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु पाण्डुराभ्रप्रकाशेषु शुकसङ्घरूतेषुच प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु उषित्वामेरुकल्पेषु कृतकाञ्चन भित्तिषु गीतवादित्रनिर्घोषैर्वराभरणनिस्स्वनैः मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः वन्दिभिर्वन्दितः काले बहुभि स्सूतमागधैः गाथाभिरनुरूपाभि स्स्तुतिभिश्च परन्तपः
Verse 6

Verse 7

Verse 8

Verse 9

Verse 10
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा मुह्यते खलु मे भाव स्स्वप्नोऽयमिति मे मतिः
Verse 11
न नूनं दैवतं किंचित्कालेन बलवत्तरम् यत्र दाशरथी रामो भूमावेव शयीत सः
Verse 12
विदेहराजस्य सुता सीता च प्रियदर्शना दयिता शयिता भूमौ स्नुषा दशरथस्य च
Verse 13
इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् स्थण्डिले कठिने सर्वं गात्रै र्विमृदितं तृणम्
Verse 14
मन्ये साभरणा सुप्ता सीताऽस्मिञ्छयनोत्तमे तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः
Verse 15
उत्तरीयमिहाऽसक्तं सुव्यक्तं सीतया तदा तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः
Verse 16
मन्ये भर्तु स्सुखा शय्या येन बाला तपस्विनी सुकुमारी सती दुःखं न हि विजानाति मैथिली
Verse 17
हा हन्ताऽस्मि नृशंसोऽहं यत्सभार्यः कृते मम ईदृशीं राघवश्शय्यामधिशेते ह्यनाथवत्
Verse 18
सार्वभौमकुले जात स्सर्वलोकस्य सम्मतः सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तम् कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः सुखभागी न दुःखार्ह श्शयितो भुवि राघवः
Verse 19

Verse 20
धन्यः खलु महाभागो लक्ष्मण श्शुभलक्षणः भ्रातरं विषमे काले यो राममनुवर्तते
Verse 21
सिद्धार्था खलु वैदेही पतिं याऽनुगता वनम् वयं संशयिता स्सर्वे हीनास्तेन महात्मना
Verse 22
आकर्णधारा पृथिवी नौः इव प्रतिभाति मा गते दशरथे स्वर्गं रामे चारण्यमाश्रिते
Verse 23
न च प्रार्थयते कच्चिन्मनसापि वसुन्धराम् वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्
Verse 24
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् अपावृतपुरद्वारां राजधानीमरक्षिताम् अप्रहृष्टबलां शून्यां विषमस्थामनावृताम् शत्रवो नाभिमन्यन्ते भक्षान्विषकृतानिव
Verse 25

Verse 26
अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा फलमूलाशनो नित्यं जटाचीराणि धारयन्
Verse 27
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति
Verse 28
वसन्तं भ्रातुरर्थाय शत्रुघ्नो माऽनुवत्स्यति लक्ष्मणेन सहत्वार्यो ह्ययोध्यां पालयिष्यति
Verse 29
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्
Verse 30
प्रसाद्यमान श्शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ततोऽनुवत्स्यामि चिराय राघवम् वनेचरन्नार्हति मामुपेक्षितुम्
0:000:00
Speed: