🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 87

Sarga 87

23 verses

Verse 1
गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्
Verse 2
सुकुमारो महासत्त्वस्सिंहस्कन्धो महाभुजः पुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः
Verse 3
सुकुमारो महासत्त्वस्सिंहस्कन्धो महाभुजः पुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः
Verse 4
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः परिष्वज्य रुरोदोच्चैर्विसंज्ञश्शोककर्शितः
Verse 5
ततस्सर्वास्समापेतुर्मातरो भरतस्य ताः उपवासकृशा दीना भर्तृव्यसनकर्शिताः
Verse 6
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे
Verse 7
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी परिपप्रच्छ भरतं रुदन्ती शोकलालसा
Verse 8
पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्
Verse 9
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृकेगते वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः
Verse 10
कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचदप्रियम् पुत्रे वाऽप्येकपुत्राया स्सहभार्ये वनं गते
Verse 11
 मुहूर्तं समाश्वस्य रुदन्नेव महायशाः कौसल्यां परिसान्त्वेद्यं गुहं वचनमब्रवीत्
Verse 12
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व  लक्ष्मणः अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे
Verse 13
सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः यद्विधं प्रतिपेदे  रामे प्रियहितेऽतिथौ
Verse 14
अन्नमुच्चावचं भक्षाः फलानि विविधानि  रामायाभ्यवहारार्थं बहुचोपहृतं मया
Verse 15
तत्सर्वं प्रत्यनुज्ञासीद्राम स्सत्यपराक्रमः  तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्
Verse 16
 ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा इति तेन वयं राजन्ननुनीता महात्मना
Verse 17
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः औपवास्यं तदाऽकार्षीद्राघवस्सह सीतया
Verse 18
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा वाग्यतास्ते त्रय स्सन्ध्यां समुपासत संहिताः
Verse 19
सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात्
Verse 20
तस्मिन्समाविशद्राम स्स्वास्तरे सह सीतया प्रक्षाल्य  तयोः पादावपचक्राम लक्ष्मणः
Verse 21
एतत्तदिङ्गुदीमूलमिदमेव  तत्तृणम् यस्मिन्रामश्च सीता  रात्रिं तां शयितावुभौ
Verse 22
नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैस्सुपूर्णाविषुधी परन्तपः महाद्धनु स्सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम्
Verse 23
तत स्त्वहंचोत्तमबाणचापधृत् स्थितोऽभवं तत्र  यत्र लक्ष्मणः अतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा
0:000:00
Speed: