Book 2 • Chapter 86
Sarga 86
25 verses
Verse 1
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः भरतायाप्रमेयाय गुहो गहनगोचरः
Verse 2
तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमबृवम्
Verse 3
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन
Verse 4
उचितोऽयं जनस्सर्वो दुःखानां त्वं सुखोचितः धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्
Verse 5
नहि रामात्प्रियतरो ममास्ति भुवि कश्चन मोत्सुकोऽभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः
Verse 6
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः धर्मावाप्तिं च विपुलामर्थकामौ च केवलम्
Verse 7
सोऽहं प्रियसखं रामं शयानं सह सीतया रक्षिष्यामि धनुष्पाणि स्सर्वै स्स्वैर्ज्ञातिभिस्सह
Verse 8
न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरत स्सदा चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि
Verse 9
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना अनुनीता वयं सर्वे धर्ममेवानुपश्यता
Verse 10
कथं दाशरथौ भूमौ शयाने सह सीतया शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
Verse 11
यो न देवासुरैस्सर्वैश्शक्यः प्रसहितुं युधि तं पश्य गुह संविष्टं तृणेषु सह सीतया
Verse 12
महता तपसा लब्धो विविधैश्च परिश्रमैः एको दशरथस्यैष पुत्रस्सदृशलक्षणः
Verse 13
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
Verse 14
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः निर्घोषो विरतो नूनमध्य राजनिवेशने
Verse 15
कौसल्या चैव राजा च तथैव जननी मम नाशंसे यदि जीवेयुस्सर्वे ते शर्वरीमिमाम्
Verse 16
जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति
Verse 17
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् राज्ये राममनिक्षिप्य पिता मे विनशिष्यति
Verse 18
सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
Verse 19
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् हर्म्यप्रासादम्पन्नां सर्वरत्नविभूषिताम् गजाश्वरथसंबाधां तूर्यनादविनादिताम् सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् सुखिता विचरिष्यन्ति राजधानीं पितुर्मम
Verse 20

Verse 21

Verse 22
अपिसत्यप्रतिज्ञेन सार्धं कुशलिना वयं निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि
Verse 23
परिदेवयमानस्य तस्यैवं सुमहात्मनः तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत
Verse 24
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया
Verse 25
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ वरेषुचापासिधरौ परन्तपौ व्यपेक्षमाणौ सह सीतया गतौ
0:000:00
Speed: