🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 85

Sarga 85

22 verses

Verse 1
एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्
Verse 2
ऊर्जितः खलु ते कामः कृतो मम गुरोस्सखे यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि
Verse 3
इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् अब्रवीद्भरत श्श्रीमाननिषादाधिपतिं पुनः
Verse 4
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह गहनोऽयं भृशं देशो गङ्गाऽनूपो दुरत्ययः
Verse 5
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः
Verse 6
दाशास्त्वाऽनुऽगमिष्यन्ति धन्विनस्सुसमाहिताः अहं त्वानुगमिष्यामि राजपुत्र महायशः
Verse 7
कच्छिन्नदुष्टो व्रजसि रामस्याक्लिष्टकर्मणः इयं ते महती सेना शङ्कां जनयतीव मे
Verse 8
तमेवमभिभाषन्तमाकाश इव निर्मलः भरतश्श्लक्ष्णया वाचा गुहं वचनमब्रवीत्
Verse 9
माभूत्स कालो यत्कष्टं  मां शङ्कितुमर्हसि राघव स्सहि मे भ्राता ज्येष्ठः पितुसमो मतः
Verse 10
तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् बुद्धिरन्या  ते कार्या गुह सत्यं ब्रवीमि ते
Verse 11
 तु संहृष्टवदन श्श्रुत्वा भरतभाषितम् पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः
Verse 12
धन्यस्त्वं  त्वया तुल्यं पश्यामि जगतीतले अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि
Verse 13
शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि
Verse 14
एवं सम्भाषमाणस्य गुहस्य भरतं तदा बभौ नष्टप्रभस्सूर्यो रजनी चाभ्यवर्तत
Verse 15
सन्निवेश्य  तां सेनां गुहेन परितोषितः शत्रुघ्नेन सह श्रीमाञ्छयनं समुपागमत्
Verse 16
रामचिन्तामय श्शोको भरतस्य महात्मनः उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः
Verse 17
अन्तर्दाहेन दहनस्सन्तापयति राघवम् वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम्
Verse 18
प्रसृतस्सर्वगात्रेभ्यस्स्वेदं शोकाग्निसम्भवम् यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतोहिमम्
Verse 19
ध्याननिर्धरशैलेन विनिश्श्वसितधातुना दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना आक्रान्तो दुःखशैलेन महता कैकयीसुतः
Verse 20
ध्याननिर्धरशैलेन विनिश्श्वसितधातुना दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना आक्रान्तो दुःखशैलेन महता कैकयीसुतः
Verse 21
विनिश्श्वसन्वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः शमं  लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः
Verse 22
गुहेन सार्धं भरतस्समागतो महानुभावस्सजनस्समाहितः सुदुर्मनास्तं भरतं तदा पुनर्गुह स्समाश्वासयदग्रजं प्रति
0:000:00
Speed: