🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 84

Sarga 84

18 verses

Verse 1
ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् निषादराजो दृष्ट्वैव ज्ञातीन्सन्त्वरितोऽऽब्रवीत्
Verse 2
महतीयमितस्सेना सागराभा प्रदृश्यते नास्यान्तमधिगच्छामि मनसापि विचिन्तयन्
Verse 3
यथा तु खलु दुर्बुद्धिर्भरत स्स्वयमागतः  एष हि महाकायः कोविदारध्वजो रथे
Verse 4
बन्धयिष्यति वा दाशानथवाऽस्मान्वधिष्यति अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् सम्पन्नां श्रियमन्विच्छन्स्तस्य राज्ञ स्सुदुर्लभाम् भरतः कैकयीपुत्रो हन्तुं समधिगच्छति
Verse 5
बन्धयिष्यति वा दाशानथवाऽस्मान्वधिष्यति अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् सम्पन्नां श्रियमन्विच्छन्स्तस्य राज्ञ स्सुदुर्लभाम् भरतः कैकयीपुत्रो हन्तुं समधिगच्छति
Verse 6
भर्ताचैव सखाचैव रामो दाशरथिर्मम तस्यार्थकामास्सन्नद्धा गङ्गाऽनूपे प्रतिष्ठत
Verse 7
तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
Verse 8
नावां शतानां पञ्चानां कैवर्तानां शतं शतम् सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत्
Verse 9
यदाऽऽदुष्टस्तु भरतो रामस्येह भविष्यति सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति
Verse 10
इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि  अभिचक्राम भरतं निषादाधिपतिर्गुहः
Verse 11
तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत्
Verse 12
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा
Verse 13
तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
Verse 14
एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरत श्शुभम् उवाच वचनं शीघ्रं गुहः पश्यतु मामिति
Verse 15
लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्
Verse 16
निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् निवेदयामस्ते सर्वे स्वके दासकुले वस
Verse 17
अस्ति मूलं फलञ्चैव निषादैस्समुपाहृतम् आर्द्रं  मांसं शुष्कं  वन्यं चोच्चावचं महत्
Verse 18
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् अर्चितो विविधैः कामै श्श्व स्ससैन्यो गमिष्यसि
0:000:00
Speed: