🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 83

Sarga 83

26 verses

Verse 1
तत स्समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् प्रययौ भरतश्शीघ्रं रामदर्शनकाङ्क्षया
Verse 2
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान्
Verse 3
नवनागसहस्राणि कल्पितानि यथाविधि अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्
Verse 4
षष्टी रथसहस्राणि धन्विनो विविधायुधाः अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्
Verse 5
शतं सहस्राण्यश्वानां समारूढानि राघवम् अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम्
Verse 6
कैकेयी  सुमित्रा  कौसल्या  यशस्विनी रामानयनसंहृष्टा ययुर्यानेन भास्वता
Verse 7
प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् तस्यैव  कथाश्चित्राः कुर्वाणा हृष्टमानसाः
Verse 8
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् कदा द्रक्ष्यामहे रामं जगत श्शोकनाशनम्
Verse 9
दृष्ट एव हि  श्शोकमपनेष्यति राघवः तम स्सर्वस्य लोकस्य समुद्यन्निव भास्करः
Verse 10
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथा श्शुभाः परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः
Verse 11
ये  तत्रापरे सर्वे सम्मता ये  नैगमाः रामं प्रति ययुर्हृष्टा स्सर्वाः प्रकृतयस्तथा
Verse 12
मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः सूत्रकर्मकृतश्चैव ये  शस्त्रोपजीविनः 2.83.12 मयूरकाः क्राकचिका रोचका वेधकास्तथा दन्तकारा स्सुधाकारा स्तथा गन्धोपजीविनः सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः स्नापकोष्णोदका वैद्याधूपकाश्शौण्डिकास्तथा रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा
Verse 13

Verse 14

Verse 15

Verse 16
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः गोरथैर्भरतं यान्तमनुजग्मु स्सहस्रशः
Verse 17
सुवेषा श्शुद्धवसनास्ताम्रमृष्टानुलेपनाः सर्वे ते विविधैर्यानै श्शनैर्भरतमन्वयुः
Verse 18
प्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम् भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम्
Verse 19
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः समासेदुस्ततो गङ्गां शृङ्गीबेरपुरं प्रति यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः निवसत्यप्रमादेन देशं तं परिपालयन्
Verse 20

Verse 21
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् व्यवातिष्ठत सा सेना भरतस्यानुयायिनी
Verse 22
निरीक्ष्यानुगतां सेनां तां  गङ्गां शिवोदकाम् भरतस्सचिवान्सर्वानब्रवीद्वाक्यकोविदः
Verse 23
निवेशयत मे सैन्यमभिप्रायेण सर्वतः विश्रान्ताः प्रतरिष्यामश्श्व इदानीमिमां नदीम्
Verse 24
दातुं  तावदिच्छामि स्वर्गतस्य महीपतेः और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्
Verse 25
तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक्
Verse 26
निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम् उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्
0:000:00
Speed: