🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 82

Sarga 82

32 verses

Verse 1
तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव
Verse 2
आसनानि यथान्यायमार्याणां विशतां तदा वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा
Verse 3
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी
Verse 4
राज्ञस्तु प्रकृती स्सर्वा स्समग्राः प्रेक्ष्य धर्मवित् इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्
Verse 5
तात राजा दशरथ स्स्वर्गतो धर्ममाचरन् धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव
Verse 6
रामस्तथा सत्यधृतिस्सतां धर्ममनुस्मरन् नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः
Verse 7
पित्रा भ्रात्रा  ते दत्तं राज्यं निहतकण्टकम् तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय
Verse 8
उदीच्या श्च प्रतीच्या श्च दाक्षिणात्याश्च केवलाः कोट्यापरान्तास्सामुद्रारत्नान्यभिहरन्तुते
Verse 9
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया
Verse 10
सबाष्पकलया वाचा कलहंसस्वरो युवा विललाप सभामध्ये जगर्हे  पुरोहितम्
Verse 11
चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्
Verse 12
कथं दशरथाज्जातो भवेद्राज्यापहारकः राज्यं चाहं  रामस्य धर्मं वक्तुमिहार्हसि
Verse 13
ज्येष्ठ श्श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा
Verse 14
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः
Verse 15
यद्धि मात्रा कृतं पापं नाहं तदपि रोचये इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः
Verse 16
राममेवानुगच्छामि राजा  द्विपदां वरः त्रयाणामपि लोकानां राज्यमर्हति राघवः
Verse 17
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः
Verse 18
यदि त्वार्यं  शक्ष्यामि विनिवर्तयितुं वनात् वने तत्रैव वत्स्यामि यथाऽर्यो लक्ष्मणस्तथा
Verse 19
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम्
Verse 20
विष्टिकर्मान्तिका स्सर्वे मार्गशोधकरक्षकाः प्रस्थापिता मया पूर्वं यत्रापि मम रोचते
Verse 21
एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्
Verse 22
तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् यात्रामाज्ञापय क्षिप्रं बलं चैव समानय
Verse 23
एवमुक्त स्सुमन्त्रस्तु भरतेन महात्मना हृष्टस्तदाऽदिशत्सर्वं यथासन्दिष्टमिष्टवत्
Verse 24
ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य  श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने
Verse 25
ततो योधाङ्गना स्सर्वा भर्त्रून्सर्वान्गृहेगृहे यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः
Verse 26
ते हयैर्गोरथैश्शीघ्रैस्स्यन्दनैश्च महाजवैः सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्
Verse 27
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्
Verse 28
भरतस्य तु तस्याज्ञां प्रतिगृह्य  हर्षितः रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः
Verse 29
 राघव स्सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा
Verse 30
तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय
Verse 31
ससूतपुत्रो भरतेन सम्यगाज्ञापितस्सम्परिपूर्णकामः शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं 
Verse 32
तत स्समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः अयूयुजन्नुष्ट्रखरान्रथांश्च नागान्हयांश्चैव कुलप्रसूतान्
0:000:00
Speed: