Book 2 • Chapter 81
Sarga 81
16 verses
Verse 1
ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः तुष्टुवुर्वाग्विशेषज्ञास्स्तवैर्मङ्गलसंहितैः
Verse 2
सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः दध्मुश्शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान्
Verse 3
स तूर्यघोष स्सुमहान्दिवमापूरयन्निव भरतं शोकसन्तप्तं भूयश्शोकैररन्ध्रयत्
Verse 4
ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्
Verse 5
पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् विसृज्य मयि दुःखानि राजा दशरथो गतः
Verse 6
तस्यैषा धर्मराजस्य धर्ममूला महात्मनः परिभ्रमति राज्य श्रीर्नौरिवाकर्णिका जले
Verse 7
यो हि न स्सुमहान्नाथस्सोऽपि प्रव्राजितो वनम् अनया धर्ममुत्सृज्य मात्रा मे राघवस्स्वयम्
Verse 8
इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् कृपणं रुरुदुस्सर्वास्सस्वरं योषित स्तदा
Verse 9
तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः
Verse 10
शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत
Verse 11
स काञ्चनमयं पीठं सुखास्तरणसंवृतम् अध्यास्त सर्ववेदज्ञो दूताननुशशास च
Verse 12
ब्राह्मणान् क्षत्रियान्वैश्यनमात्यान्गणवल्लभान् क्षिप्रमानयताऽव्यग्राः कृत्यमात्ययिकं हि नः
Verse 13
सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः
Verse 14
ततो हलहलाशब्दस्सुमहान्समपद्यत रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्
Verse 15
ततो भरतमायान्तं शतक्रतुमिवामराः प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा
Verse 16
ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा
0:000:00
Speed: