Book 2 • Chapter 80
Sarga 80
22 verses
Verse 1
अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः स्वकर्माभिरताश्शूराः खनका यन्त्रकास्तथा कर्मान्तिकाः स्थपतयः पुरुष यन्त्रकोविदाः तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे
Verse 2

Verse 3

Verse 4
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् अशोभत महावेगस्समुद्र इव पर्वणि
Verse 5
ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः करणैर्विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे
Verse 6
लतावल्ली श्च गुल्मांश्च स्थाणूनश्मन एव च जनायांचक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्
Verse 7
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् केचित्कुठारैष्टङ्कैश्च दात्रैश्चिन्दन्क्वचित्क्वचित्
Verse 8
अपरे वीरणस्तम्भान्बलिनो बलवत्तराः विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः
Verse 9
अपरेऽपूरयन्कूपान्पांसुभि श्श्वभ्रमायतम् निम्नभागान्स्ततः केचित्समान्श्चक्रु स्समन्ततः
Verse 10
बबन्धुर्बन्धनीयांश्च क्षोद्यान्सञ्चुक्षुदुस्तदा बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरा स्तदा
Verse 11
अचिरेणैव कालेन परिवाहान्बहूदकान् चक्रुर्बहुविधाकारान् सागरप्रतिमान्बहून्
Verse 12
निर्जलेषु च देशेषु खानयामासुरुत्तमान् उदपानान्बहुविधान्वेदिकापरिमण्डितान्
Verse 13
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः मत्तोद्घुष्ट द्विजगणः पताकाभिरलङ्कृतः चन्दनोदकसंसिक्तो नानाकुसुमभूषितः बह्वशोभत सेनायाः पन्था स्सुरपथोपमः
Verse 14

Verse 15
आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः रमणीयेषु देशेषु बहुस्वादुफलेषु च यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्
Verse 16

Verse 17
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः निवेशान् स्थापयामासुर्भरतस्य महात्मनः
Verse 18
बहुपांसुचयाश्चापि परिखापरिवारिताः तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः प्रासादमालावितता स्सौधप्राकारसंवृताः पताकाशोभिता स्सर्वे सुनिर्मितमहापथाः विसर्पद्भिरिवाऽकाशे विटङ्काग्रविमानकैः समुच्छ्रितैर्निवेशास्ते बभुश्शक्रपुरोपमाः
Verse 19

Verse 20

Verse 21
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् शीतलामलपानीयां महामीनसमाकुलाम्
Verse 22
सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते नरेन्द्रमार्गस्स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः
0:000:00
Speed: