Book 2 • Chapter 79
Sarga 79
17 verses
Verse 1
ततः प्रभातसमये दिवसेऽथ चतुर्दशे समेत्य राजकर्तारो भरतं वाक्यमब्रुवन्
Verse 2
गतो दशरथस्स्वर्गं यो नो गुरुतरो गुरुः रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम्
Verse 3
त्वमद्य भव नो राजा राजपुत्र महायशः सङ्गत्या नापराध्नोति राज्यमेतदनायकम्
Verse 4
अभिषेचनिकं सर्वमिदमादाय राघव प्रतीक्षते त्वां स्वजनश्श्रेणयश्च नृपात्मज
Verse 5
राज्यं गृहाण भरत पितृपैतामहं ध्रुवम् अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ
Verse 6
अभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः
Verse 7
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः
Verse 8
रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च
Verse 9
युज्यतां महती सेना चतुरङ्गमहाबला आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्
Verse 10
अभिषेचनिकं चैव सर्वमेतदुपस्कृतम् पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति
Verse 11
तत्रैवं तं नरव्याघ्रमभिषिच्य पुरस्कृतम् आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् 2.79.11
Verse 12
न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति
Verse 13
क्रियतां शिल्पिभिः पन्था स्समानि विषमाणि च रक्षिणश्चानुसम्यान्तु पथि दुर्गविचारकाः
Verse 14
एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम् प्रत्युवाच जनस्सर्व श्श्रीमद्वाक्यमनुत्तमम्
Verse 15
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठतात् यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि
Verse 16
अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः
Verse 17
ऊचुस्ते वचनमिदं निशम्य हृष्टा स्सामात्या स्सपरिषदो वियातशोकाः पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः 2.79.17
0:000:00
Speed: