🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 78

Sarga 78

26 verses

Verse 1
अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः भरतं शोकसन्तप्तमिदं वचनमब्रवीत्
Verse 2
गतिर्य स्सर्वभूतानां दुःखे किं पुनरात्मनः  राम स्सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम्
Verse 3
बलवान्वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ किं  मोचयते रामं कृत्वा स्म पितृनिग्रहम्
Verse 4
पूर्वमेव तु निग्राह्य स्समवेक्ष्य नयानयौ उत्पथं यस्समारूढो राजा नार्या वशं गतः
Verse 5
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता
Verse 6
लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती विविधं विविधै स्तैस्तैर्भूषणैश्च विभूषिता
Verse 7
मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी
Verse 8
तां समीक्ष्य तदा द्वास्स्थास्सुभृशं पापकारिणीम् गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन्
Verse 9
यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता सेयं पापा नृशंसा  तस्याः कुरु यथामति
Verse 10
शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः अन्तःपुरचरान्सर्वानित्युवाच धृत व्रतः
Verse 11
तीव्रमुत्पादितं दुःखं भ्रात्रूणां मे तथा पितुः यया सेयं नृशंसस्य कर्मणः फलमश्नुताम्
Verse 12
एवमुक्त्वा तु तेनाशु सखीजनसमावृता गृहीता बलवत्कुब्जा सा तद्गृहमनादयत्
Verse 13
तत स्सुभृशसन्तप्तस्तस्या स्सर्व स्सखीजनः क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः
Verse 14
आमन्त्रयत कृत्स्न श्च तस्या स्सर्व स्सखीजनः यथाऽयं समुपक्रान्तो निश्शेषां नः करिष्यति
Verse 15
सानुक्रोशां वदान्यां  धर्मज्ञां  यशस्विनीम् कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः
Verse 16
  रोषेण ताम्राक्ष श्शत्रुघ्न श्शत्रुतापनः विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले
Verse 17
तस्या ह्याकृष्यमाणाया मन्थराया स्ततस्ततः चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत
Verse 18
तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् अशोभत तदा भूयः शारदं गगनं यथा
Verse 19
 बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः
Verse 20
तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता
Verse 21
तं प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् अवध्या स्सर्वभूतानां प्रमदाः क्षम्यतामिति
Verse 22
हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् यदि मां धार्मिको रामो नासूयेन्मातृघातकम्
Verse 23
इमामपि हतां कुब्जां यदि जानाति राघवः त्वां  मां  हि धर्मात्मा नाभिभाषिष्यते ध्रुवम्
Verse 24
भरतस्य वचश्श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः न्यवर्तत ततो रोषात्तां मुमोच  मन्थराम्
Verse 25
सा पादमूले कैकेय्या मन्थरा निपपात  निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप 
Verse 26
शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता शनैस्समाश्वासयदार्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम्
0:000:00
Speed: