🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 77

Sarga 77

26 verses

Verse 1
ततो दशाहेऽतिगते कृतशौचो नृपात्मजः द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत्
Verse 2
ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं  पुष्कलम् वासांसि  महार्हाणि रत्नानि विविधानि 
Verse 3
बास्तिकं बहु शुक्लं  गाश्चापि शतशस्तथा दासीदासं  यानं  वेश्मानि सुमहान्ति  ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम्
Verse 4
ततः प्रभातसमये दिवसेऽथ त्रयोदशे विललाप महाबाहुर्भरत श्शोकमूर्छितः शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः चितामूले पितुर्वाक्यमिदमाह सुदुःखितः
Verse 5
ततः प्रभातसमये दिवसेऽथ त्रयोदशे विललाप महाबाहुर्भरत श्शोकमूर्छितः शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः चितामूले पितुर्वाक्यमिदमाह सुदुःखितः
Verse 6
तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया
Verse 7
यस्या गतिरनाथायाः पुत्रः प्रवाजितो वनम् तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप
Verse 8
दृष्ट्वा भस्मारुणं तच्च दग्धास्थि स्थानमण्डलम् पितु श्शरीरनिर्वाणं निष्टनन्विषसाद सः
Verse 9
 तु दृष्ट्वा रुदन् दीनः पपात धरणीतले उत्थाप्यमानश्शक्रस्य यन्त्रध्वज इव च्युतः
Verse 10
अभिपेतुस्ततस्सर्वे तस्यामात्याश्शुचिव्रतम् अन्तकाले निपतितं ययातिमृषयो यथा
Verse 11
शत्रुघ्न श्चापि भरतं दृष्ट्वा शोकम् परिप्लुतः विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्
Verse 12
उन्मत्त इव निश्चेता विललाप सुदुःखितः स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तथा तथा
Verse 13
मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः वरदानमयोऽक्षोभ्योऽमञ्जयच्छोकसागरः
Verse 14
सुकुमारं  बालं  सततं लालितं त्वया क्व तात भरतं हित्वा विलपन्तं गतो भवान्
Verse 15
ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु  प्रवारयसि नस्सर्वान् तन्नः कोऽन्यः करिष्यति
Verse 16
अवदारणकाले तु पृथिवी नावदीर्यते या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना
Verse 17
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम्
Verse 18
हीनो भ्रात्रा  पित्रा  शून्यामिक्ष्वाकुपालिताम् अयोध्यां  प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्
Verse 19
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् भृशमार्ततरा भूयस्सर्वएवानुगामिनः
Verse 20
ततो विषण्णौ श्रान्तौ  शत्रुघ्नभरतावुभौ धरण्यां संव्यवेष्टेतां भग्नशृङ्गाविवर्षभौ
Verse 21
ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच 
Verse 22
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो सावशेषास्थिनिचये किमिह त्वं विलम्भसे
Verse 23
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः तेषु चापरिहार्येषु नैवं भवितुमर्हसि
Verse 24
सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य  श्रावयामास तत्त्वज्ञ स्सर्वभूतभवाभवम्
Verse 25
उत्थितौ  नरव्याघ्रौ प्रकाशेते यशस्विनौ वर्षातपपरिक्लिनौ पृथगिन्द्रध्वजाविव
Verse 26
अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः
0:000:00
Speed: