Book 2 • Chapter 76
Sarga 76
23 verses
Verse 1
तमेवं शोकसन्तप्तं भरतं कैकयी सुतम् उवाच वदतां श्रेष्ठो वसिष्ठ श्श्रेष्ठवागृषिः
Verse 2
अलं शोकेन भद्रं ते राजपुत्र महायशः प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्
Verse 3
वसिष्ठस्य वच श्शृत्वा भरतो धारणां गतः प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्
Verse 4
उद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम् आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते ततो दशरथं पुत्रो विललाप सुदुःखितः
Verse 5
उद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम् आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते ततो दशरथं पुत्रो विललाप सुदुःखितः
Verse 6
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्
Verse 7
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
Verse 8
योगक्षेमं तु ते राजन् कोऽस्मिन्कल्पयिता पुरे त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते
Verse 9
विधवा पृथिवी राजन् स्त्वया हीना न राजते हीनचन्द्रेव रजनी नगरी प्रतिभाति मा
Verse 10
एवं विलपमानं तं भरतं दीनमानसम् अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः
Verse 11
प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः तान्यव्यग्रं महाबाहो क्रियान्तामविचारितम्
Verse 12
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः
Verse 13
ये त्वग्नयो नरेन्द्रेस्य चाग्न्यगाराद्बहिष्कृताः ऋत्विग्भिर्याजकैश्चैव ते आह्रियन्त यथाविधि
Verse 14
शिबिकायामथा़ऽरोप्य राजानं गतचेतसम् बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः
Verse 15
हिरण्यं च सुवर्णं च वासांसि विविधानि च प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः
Verse 16
चन्दनागरुनिर्यासान् सरलं पद्मकं तथा देवदारूणि चाहृत्य क्षेपयन्ति तथापरे गन्धानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम् तत्र संवेशयामासुश्चितामध्ये तमृत्विजः
Verse 17
चन्दनागरुनिर्यासान् सरलं पद्मकं तथा देवदारूणि चाहृत्य क्षेपयन्ति तथापरे गन्धानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम् तत्र संवेशयामासुश्चितामध्ये तमृत्विजः
Verse 18
तदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः जगुश्च ते यथाशास्त्र तत्र सामानि सामगाः
Verse 19
शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः नगरा न्निर्ययुस्तत्र वृद्धैः परिवृता स्तदा
Verse 20
प्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम् स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा
Verse 21
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः
Verse 22
ततो रुदन्त्यो विवशाविलप्य च पुनः पुनः यानेभ्यस्सरयूतीरमवतेरुर्वराङ्गनाः
Verse 23
कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिता श्च पुरंप्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयन्त दुःखम्
0:000:00
Speed: