Book 2 • Chapter 75
Sarga 75
64 verses
Verse 1
दीर्घकालात्समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम् सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत्
Verse 2
राज्यं न कामये जातु मन्त्रये नापि मातरम् अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः विप्रकृष्टेह्यहं देशे शत्रुघ्नसहितोऽवसम्
Verse 3
राज्यं न कामये जातु मन्त्रये नापि मातरम् अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः विप्रकृष्टेह्यहं देशे शत्रुघ्नसहितोऽवसम्
Verse 4
वनवासं न जानामि रामस्याहं महात्मनः विवासनं वा सौमित्रे स्सीतायाश्च यथाऽभवत्
Verse 5
तथैव क्रोशतस्तस्य भरतस्य महात्मनः कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्
Verse 6
आगतः क्रूरकार्यायाः कैकेय्या भरतस्सुतः तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्
Verse 7
एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा प्रतस्थे भरतो यत्र वेपमाना विचेतना
Verse 8
स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्
Verse 9
तत श्शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतसाम् रुदन्तौ रुदतीं दुःखात्समेत्यार्यां मनस्स्विनीम्
Verse 10
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् संप्राप्तं बत कैकेय्या शशीघ्रं क्रूरेण कर्मणा
Verse 11
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् संप्राप्तं बत कैकेय्या शशीघ्रं क्रूरेण कर्मणा
Verse 12
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी
Verse 13
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः
Verse 14
अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः
Verse 15
कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः
Verse 16
इदं हि तव विस्तीर्णं धनधान्यसमाचितम् हस्त्वश्वरथसम्पूर्णं राज्यं निर्यातितं तया
Verse 17
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्सितोऽनघः विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना
Verse 18
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः
Verse 19
एवं विलपमानां तां भरतः प्राञ्जलिस्तदा कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्
Verse 20
आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् विपुलां च मम प्रीतिं स्थिरां जानासि राघवे
Verse 21
कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन सत्यसन्ध स्सतां श्रेष्ठो यस्याऽर्योऽनुमते गतः
Verse 22
प्रेष्यं पापीयसां यातु सूर्यञ्च प्रतिमेहतु हन्तु पादेन गां सुप्तां यस्याऽर्योऽनुमते गतः
Verse 23
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् अधर्मो योऽस्य सोऽस्यास्तु यस्याऽर्योऽनुमतेगतः
Verse 24
परिपालयमानस्य राज्ञो भूतानि पुयत्रवत् ततस्नु दुह्यतां पापं यस्याऽर्योऽनुमते गतः
Verse 25
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः अधर्मो योऽस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः
Verse 26
संश्रुत्य च तपस्विभ्यस्सत्रे वै यज्ञदक्षिणाम् तां विप्रलपतां पापं यस्यार्योऽनुमते गतः
Verse 27
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः
Verse 28
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता स नाशयतु दुष्टात्मा यस्याऽर्योऽनुमते गतः
Verse 29
मा च तं व्यूढबाह्वंसं चन्द्रार्कसमतेजसम् द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमतेगतः
Verse 30
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः गुरूंश्चाप्यवजानातु यस्याऽर्योऽनुमते गतः
Verse 31
गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम् मित्रे द्रुह्येत सोऽत्यन्तं यस्याऽर्योऽनुमते गतः
Verse 32
विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित् विवृणोतु स दुष्टात्मा यस्याऽर्योऽमते गतः
Verse 33
अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः
Verse 34
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः
Verse 35
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् अनवाप्य क्रियां धर्म्यां यस्याऽर्योऽनुमते गतः
Verse 36
माऽत्मनस्सन्ततिं द्राक्षीत्स्वेषु दारेषु दुःखितः आयुस्समग्रमप्राप्य यऽस्यार्योऽनुमते गतः
Verse 37
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्
Verse 38
लाक्षया मधुमांसेन लोहेन च विषेण च सदैव बिभृयाद्भृत्यान्यस्यार्योऽनुमते गतः
Verse 39
सङ्ग्रमे समुपोढे स्म शत्रुपक्षभयङ्करे पलायामानो वध्येत यस्यार्योऽनुमते गतः
Verse 40
कपालपाणिः पृथिवीमटतां चीरसंवृतः भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः
Verse 41
मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः
Verse 42
मास्म धर्मे मनो भूयादधर्मं स निषेवताम् अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः
Verse 43
सञ्चितान्यस्य वित्तनि विविधानि सहस्रशः दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः
Verse 44
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते तच्चपापं भवेत्तस्य यस्यार्योऽनुमते गतः
Verse 45
यदग्निदायके पापं यत्पापं गुरतल्पगे मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्
Verse 46
देवतानां पित्रूणां च मातापित्रोस्तथैव च मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः
Verse 47
सतां लोकात्सतां कीर्त्या स्सञ्जुष्टात्कर्मणस्तथा भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः
Verse 48
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् दीर्घबाहुर्महावक्षा: यस्यार्योऽनुमते गतः
Verse 49
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः स भूयात्सतत क्लेशी यस्यार्योऽनुमते गतः
Verse 50
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः
Verse 51
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः
Verse 52
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः
Verse 53
सधर्मदारान्परित्यज्य परदारान्निषेवताम् त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः
Verse 54
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः
Verse 55
पानीयदूषके पापं तथैव विषदायके यत्तदेकस्स लभतां यस्यार्योऽनुमते गतः
Verse 56
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गतः
Verse 57
तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत् लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः
Verse 58
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः तस्य पापेन युज्येत यस्यार्योऽनुमते गतः
Verse 59
विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः एवमाश्वासयन्नेव दुःखार्तो निपपात ह
Verse 60
तथा तु शपथैः कष्टै श्शपमानमचेतनम् भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत्
Verse 61
मम दुःखमिदं पुत्र भूयस्समुपजायते शपथै श्शपमानो हि प्राणानुपरुणत्सि मे
Verse 62
दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः वत्स सत्यप्रतिज्ञो ते सतां लोकमवाप्स्यसि
Verse 63
इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् परिष्वज्य महाबाहुं रुरोद भृशदुःखिता
Verse 64
एवं विलपमानस्य दुःखार्तस्य महात्मनः मोहाच्च शोकसम्रोधाद्बभूव लुलितं मनः
0:000:00
Speed: