🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 74

Sarga 74

36 verses

Verse 1
तां तथा गर्हयित्वा तु मातरं भरतस्तदा रोषेण महताऽविष्टः पुनरेवाब्रवीद्वचः
Verse 2
राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि परित्यक्ता  धर्मेण मा मृतं रुदती भव
Verse 3
किन्नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ
Verse 4
भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् कैकेयि नरकं गच्छ मा  भर्तु स्सलोकताम्
Verse 5
यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्
Verse 6
त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः अयशो जीवलोके  त्वयाऽहं प्रतिपादितः
Verse 7
मातृरूपे ममामित्रे नृशंसे राज्यकामुके  तेऽह मभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि
Verse 8
कौसल्या  सुमित्रा  याश्चान्या मम मातरः दुःखेन महताऽविष्टास्त्वां प्राप्य कुलदूषिणीम्
Verse 9
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः राक्षसी तत्र जाताऽसि कुलप्रध्वंसिनी पितुः यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः वनं प्रस्थापितो दुःखात्पिता  त्रिदिवं गतः
Verse 10
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः राक्षसी तत्र जाताऽसि कुलप्रध्वंसिनी पितुः यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः वनं प्रस्थापितो दुःखात्पिता  त्रिदिवं गतः
Verse 11
यत्प्रधानाऽसि तत्पापं मयि पित्रा विनाकृते भ्रातृभ्यां  परित्यक्ते सर्वलोकस्य चाप्रिये
Verse 12
कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि
Verse 13
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् ज्येष्ठं पितृसमं रामं कौसल्यायाऽत्मसम्भवम्
Verse 14
अङगप्रत्यङगजः पुत्रो हृदयाच्चापि जायते तस्मात्प्रियतमो मातुः प्रिया एव तु बान्धवाः
Verse 15
अन्यदा किल धर्मज्ञा सुरभि स्सुरसम्मता वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ
Verse 16
तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा
Verse 17
अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः बिन्दवः पतिता गात्रे सूक्ष्मा स्सुरभिगन्धिनः
Verse 18
इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः
Verse 19
निरीक्षमाण श्शक्रस्तां ददर्श सुरभिं स्थिताम् आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम्
Verse 20
तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् इन्द्रः प्राञ्जलिरुद्विग्न स्सुरराजोऽब्रवीद्वचः
Verse 21
भयं कच्छिन्न चास्मासु कुतश्चिद्विद्यते महत् कुतोनिमत्तश्शोकस्ते ब्रूहि सर्वहितैषिणि
Verse 22
एवमुक्ता तु सुरभि स्सुरराजेन धीमता प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा
Verse 23
शान्तं पापं  वः किञ्चित्कुतश्चिदमराधिपः अहं मग्नौ तु शोचामि स्वपुत्रौ विषमे स्थितौ एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ बाध्यमानौ बलीवर्धौ कर्षकेण सुराधिप
Verse 24
शान्तं पापं  वः किञ्चित्कुतश्चिदमराधिपः अहं मग्नौ तु शोचामि स्वपुत्रौ विषमे स्थितौ एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ बाध्यमानौ बलीवर्धौ कर्षकेण सुराधिप
Verse 25
ममकायात्प्रसूतौ हि दुःखितौ भारपीडितौ यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः
Verse 26
यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् तां दृष्ट्वा रुदतीं शक्रो  सुतान्मन्यते परम्
Verse 27
सदाऽप्रतिमवृत्तायाः लोकधारणकाम्यया श्रीमत्या गुणनित्याया स्स्वभावपरिचेष्टया यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् किं पुनर्या विना रामं कौसल्या वर्तयिष्यति
Verse 28
सदाऽप्रतिमवृत्तायाः लोकधारणकाम्यया श्रीमत्या गुणनित्याया स्स्वभावपरिचेष्टया यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् किं पुनर्या विना रामं कौसल्या वर्तयिष्यति
Verse 29
एकपुत्रा  साध्वी  विवत्सेयं त्वया कृता तस्मात्त्वं सततं दुःखं प्रेत्य चेह  लप्स्यसे
Verse 30
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् वर्धनं यशसश्चापि करिष्यामि  संशयः
Verse 31
अनाययित्वा तनयं कौसल्याया महाबलम् स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्
Verse 32
 ह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम् शक्तो धारयितुं पौरैरश्रुकण्ठै र्निरीक्षितः
Verse 33
सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान्विश रज्जुं बधान वा कण्ठे  हि तेऽन्यत्परायणम्
Verse 34
अहमप्यवनीं प्राप्ते रामे सत्यपराक्रमे कृतकृत्यो भविष्यामि विप्रवासितकल्मषः
Verse 35
इति नाग इवारण्ये तोमराङ्कुशचोदितः पपात भुवि सङ्कृद्धो निश्श्वसन्निव पन्नगः
Verse 36
संरक्तनेत्र श्शिथिलाम्भरस्तदा विधूतसर्वाभरणः परन्तपः बभूव भूमौ पतितो नृपात्मजश्शचीपतेः केतुरिवोत्सवक्षये
0:000:00
Speed: