🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 73

Sarga 73

28 verses

Verse 1
सश्रूत्वा तु पितरं वृत्तं भ्रातरौ  विवासितौ भरतो दुःखसन्तप्त इदं वचनमब्रवीत्
Verse 2
किं नु कार्यं हतस्येह मम राज्येन शोचतः विहीनस्याथ पित्रा  भ्रात्रा पितृसमेन 
Verse 3
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः राजानं प्रेतभावस्थं कृत्वा रामं  तापसम्
Verse 4
कुलस्य त्वमभावाय कालरात्रिरिवाऽगता अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्
Verse 5
मृत्युमापादितो पिता त्वया मे पापदर्शिनि सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसनि
Verse 6
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः
Verse 7
विनाशितो महाराजः पिता मे धर्मवत्सलः कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः
Verse 8
कौसल्या  सुमित्रा  पुत्रशोकाभिपीडिते दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम
Verse 9
ननुत्वार्योऽपि धर्मात्मा त्वयि वृतिमनुत्तमाम् वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते
Verse 10
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते
Verse 11
तस्याः पुत्रं कृताऽत्मानं चीरवल्कलवाससम् प्रस्थाप्य वनवासाय कथं पापे  शोचसि
Verse 12
अपापदर्शनं शूरं कृतात्मानं यशस्विनम् प्रव्राज्य चीरवसनं किन्नु पश्यसि कारणम्
Verse 13
लुब्धाया विदितो मन्ये  तेऽहं राघवं प्रति तथाह्यनर्धो राज्यार्थं त्वयाऽनीतो महानयम्
Verse 14
अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे
Verse 15
तं हि नित्यं महाराजो बलवन्तं महाबलः उपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा
Verse 16
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम् दम्योधुरमिवाऽऽसाद्य वहेयं केनचौजसा
Verse 17
अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा सकामां  करिष्यामि त्वामहं पुत्रगर्धिनीम्
Verse 18
 मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा
Verse 19
उत्पन्नातु कथं बुद्धिस्तवेयं पापदर्शिनि साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता
Verse 20
अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते अपरे भ्रातरस्तस्मिन्प्रवर्तन्ते समाहिताः
Verse 21
 हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे गतिं वा  विजानासि राजवृत्तस्य शाश्वतीम्
Verse 22
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः
Verse 23
तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम् अद्य चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्तितम्
Verse 24
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः
Verse 25
 तु कामं करिष्यामि तवाऽहं पापनिश्चये त्वया व्यसनमारब्धं जीवितान्तकरं मम
Verse 26
एषत्विदानीमेवाहमप्रियार्थं तवानघम् निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्
Verse 27
निवर्तयित्वा रामं  तस्याहं दीप्ततेजसः दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना
Verse 28
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः
0:000:00
Speed: