Book 2 • Chapter 72
Sarga 72
53 verses
Verse 1
अपश्यंस्तु ततस्तत्र पितरं पितुरालये जगाम भरतो द्रष्टुं मातरं मातुरालये
Verse 2
अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम्
Verse 3
स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ
Verse 4
सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे
Verse 5
अद्य ते कतिचिद्रात्र्य श्च्युतस्याऽर्यकवेश्मनः अपि नाध्वश्रमशशीघ्रं रथेनापततस्तव
Verse 6
आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि
Verse 7
एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः आचष्ट भरत स्सर्वं मात्रे राजीवलोचनः
Verse 8
अद्य मे सप्तमी रात्रिश्च्युतस्याऽर्यकवेश्मनः अम्बायाः कुशली तात युधाजिन्मातुलश्च मे
Verse 9
यन्मे धनं च रत्नं च ददौ राजा परन्तपः परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः
Verse 10
राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति
Verse 11
शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा
Verse 12
राजा भवति भूयिष्ठमिहाम्बाया निवेशने तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहाऽगतः
Verse 13
पितुर्ग्रहीष्ये चरणौ तं ममाऽख्याहि पृच्छतः आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने
Verse 14
तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता
Verse 15
या गतिस्सर्वभूतानां तां गतिं ते पिता गतः राजा महत्मा तेजस्वी यायजूकस्सतां गतिः
Verse 16
तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्चुचिः पपात सहसा भूमौ पितृशोकबलार्दितः
Verse 17
हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान्
Verse 18
ततश्शोकेन संवीतः पितुर्मरणदुःखितः विललाप महातेजा भ्रान्ताकुलितचेतनः
Verse 19
एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा शशिनेवामलं रात्रौ गगनं तोयदात्यये
Verse 20
तदिदं न विभात्यद्य विहीनं तेन धीमता व्योमेव शशिना हीनमप्च्छुष्क इव सागरः
Verse 21
बाष्पमुत्सृज्य् कण्ठेन स्वात्मना परमपीडितः आच्छाद्य वदनं श्रीमद्वस्त्रेण जयतां वरः
Verse 22
तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि निकृत्तमिव सालस्य स्कन्धं परशुना वने मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्
Verse 23
तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि निकृत्तमिव सालस्य स्कन्धं परशुना वने मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं भुवः उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्
Verse 24
उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः त्वद्विधा नहि शोचन्ति सन्त स्सदसि सम्मताः
Verse 25
दानयज्ञाधिकारा हि शीलश्रुतिवचोऽनुगा बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे
Verse 26
स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः
Verse 27
अभिषेक्ष्यति रामं नु राजा यज्ञं नु यक्ष्यते इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम्
Verse 28
तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम पितरं यो न पश्यामि नित्यं प्रियहिते रतम्
Verse 29
अम्ब केनात्यगाद्राजा व्याघिना मय्यनागते धन्या रामादयस्सर्वे यैः पिता संस्कृत स्स्वयम्
Verse 30
न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् उपजिघ्रेद्धि मूर्ध्नि तात स्सन्नम्य सत्वरम्
Verse 31
क्व स पाणिस्सुखस्पर्शस्तातस्याक्लिष्टकर्मणः येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति
Verse 32
यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः
Verse 33
पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम
Verse 34
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः
Verse 35
पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्
Verse 36
रामेति राजा विलपन् हा सीते लक्ष्मणेति च स महात्मा परं लोकं गतो गतिमतां वरः
Verse 37
इमां तु पश्चिमां वाचं व्याजहार पिता तव कालधर्मपरिक्षिप्तः पाशैरिव महागजः
Verse 38
सिद्धार्थास्ते नरा राममागतं सह सीतया लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम्
Verse 39
तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात् विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्
Verse 40
क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः
Verse 41
तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे मातास्य सुमहद्वाक्यं विप्रियं प्रियशङ्कया
Verse 42
स हि राजसुतः पुत्र चीरवासा महावनम् दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः
Verse 43
तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया स्वस्य वंशस्य महात्म्यात्प्रष्टुं समुपचक्रमे
Verse 44
कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः
Verse 45
कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः
Verse 46
अथास्य चपला माता तत्स्वकर्म यथातथम् तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे
Verse 47
एवमुक्ता तु कैकेयी भरतेन महात्मना उवाच वचनं हृष्टा मूढा पण्डितमानिनी
Verse 48
न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् कश्चिन्नाढ्यो दरिद्रो तेनापापो विहिंसितः न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति
Verse 49
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् याचितस्ते पिता राज्यं रामस्य च विवासनम्
Verse 50
स स्ववृत्तिं समास्थाय पिता ते तत्तऽथाकरोत् रामश्च सह सौमित्रिः प्रेषितस्सह सीतया
Verse 51
तमपश्यन्प्रियंपुत्रं महीपालो महायशाः पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान्
Verse 52
त्वयात्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् त्वत्कृते हि मया सर्वमिदमेवं विधं कृतम्
Verse 53
मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक त्वदधीना हि नगरी राज्यं चैतदनामयम्
0:000:00
Speed: