Book 2 • Chapter 71
Sarga 71
46 verses
Verse 1
[Crossing many rivers, forests and territories Bharata reaches Ayodhya -- witnesses scenes of dull desolation charged with an atmosphere of apprehensions -- enters the palace dejected] स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः
Verse 2
स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः
Verse 3
ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम् सत्यसन्धश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम् अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति
Verse 4
ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम् सत्यसन्धश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम् अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति
Verse 5
सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्यच उत्तरान्वीरमत्स्यानां भारुण्डं प्राविशद्वनम्
Verse 6
वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वताऽऽवृताम् यमुनां प्राप्य सन्तीर्णः बलमाश्वासयत्तदा
Verse 7
सशीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्
Verse 8
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्
Verse 9
भागीरथीं दुष्प्रतरामंशुधाने महानदीम् उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे
Verse 10
स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् सबल स्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम्
Verse 11
तोरणं दक्षिणार्धेन जम्भूप्रस्थमुपागमत् वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः
Verse 12
तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः
Verse 13
सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ
Verse 14
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्
Verse 15
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्
Verse 16
एकसाले स्थाणुमतीं विनते गोमतीं नदीम् कलिङ्गनगरे चापि प्राप्य सालवनं तदा भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः
Verse 17
वनं च समतीत्याशुशर्वर्यामरुणोदये अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह
Verse 18
तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत्
Verse 19
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता
Verse 20
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता
Verse 21
अयोध्यायां पुरा शब्दश्श्रूयते तुमुलो महान् समन्तान्नरनारीणां तमद्य न श्रुणोम्यहम्
Verse 22
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः समन्तात्परिधावद्भिः प्रकाशन्ते ममान्यथा
Verse 23
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः अरण्यभूतेव पुरी सारथे प्रतिभाति मे
Verse 24
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः निर्यान्तो वाऽभियान्तो वा नरमुख्या यथापुरम्
Verse 25
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च
Verse 26
तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः
Verse 27
नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम् संरक्तां मधुरां वाणीं कलं व्याहरतां बहु
Verse 28
चन्दनागरुसम्पृक्तो धूपसम्मूर्छितोऽतुलः प्रवाति पवन श्श्रीमान्किन्नुनाद्य यथापुरम्
Verse 29
भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः किमद्य शब्दो विरतस्सदा दीनगतिः पुरा
Verse 30
अनिष्टानि च पापानि पश्यामि विविधानि च निमित्तान्यमनोज्ञानितेन सीदति मे मनः
Verse 31
सर्वथा कुशलं सूत दुर्लभं मम बन्दुषु तथाह्यसति सम्मोहे हृदयं सीदतीव मे
Verse 32
विषण्ण श्श्रान्तहृदयस्त्रस्त स्सुलुलितेन्द्रियः भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम्
Verse 33
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः द्वास्स्थैरुत्थाय विजयं पृष्टस्तै स्सहितो ययौ
Verse 34
स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः
Verse 35
किमहं त्वरयाऽनीतः कारणेन विनानघ अशुभाशङ्कि हृदयं शीलं च पततीव मे
Verse 36
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने आकारांस्तानहं सर्वानिहपश्यामि सारथे
Verse 37
सम्मार्जनविहीनानि परुषाण्युपलक्षये असंयत कवाटानि श्रीविहीनानि सर्वशः बलिकर्मविहीनानि धूपसम्मोदनेन च अनाशितकुटुम्बानि प्रभाहीनजनानि च अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्
Verse 38
सम्मार्जनविहीनानि परुषाण्युपलक्षये असंयत कवाटानि श्रीविहीनानि सर्वशः बलिकर्मविहीनानि धूपसम्मोदनेन च अनाशितकुटुम्बानि प्रभाहीनजनानि च अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्
Verse 39
सम्मार्जनविहीनानि परुषाण्युपलक्षये असंयत कवाटानि श्रीविहीनानि सर्वशः बलिकर्मविहीनानि धूपसम्मोदनेन च अनाशितकुटुम्बानि प्रभाहीनजनानि च अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम्
Verse 40
अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च देवागाराणि शून्यानि न चाभान्ति यथापुरम्
Verse 41
देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा
Verse 42
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः
Verse 43
देवायतनचैत्येषु दीनाः पक्षिगणास्तथा मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे
Verse 44
देवायतनचैत्येषु दीनाः पक्षिगणास्तथा मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे
Verse 45
इत्येवमुक्त्वा भरतस्सूतं तं दीनमानसः तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ
Verse 46
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकवाटयन्त्राम् दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव
0:000:00
Speed: