Book 2 • Chapter 70
Sarga 70
30 verses
Verse 1
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः
Verse 2
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः
Verse 3
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
Verse 4
इमानि च महार्हाणि वस्त्राण्याभरणानि च प्रतिगृह्य विशालक्ष मातुलस्य च दापय
Verse 5
अत्र विशंतिकोट्यस्तु नृपतेर्मातुलस्य ते दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज
Verse 6
प्रतिगृह्य तु तत्सर्वं स्वनुरक्त स्सुहृज्जने दूतानुवाच भरतः कामैस्सम्प्रतिपूज्य तान्
Verse 7
कच्चित्सुकुशली राजा पिता दशरथो मम कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि
Verse 8
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी अरोगा चापि कौसल्या माता रामस्य धीमतः
Verse 9
कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा
Verse 10
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी अरोगा चापि मे माता कैकेयी किमुवाच ह
Verse 11
एवमुक्तास्तु ते दूताः भरतेन महात्मना ऊचुस्सप्रश्रयं वाक्यमिदं तं भरतं तदा
Verse 12
कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः
Verse 13
भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत आपृच्चेऽहं महाराजं दूतास्सन्त्वरयन्ति माम्
Verse 14
एवमुक्त्वा तु तान् दूतान्भरतः पार्थिवात्मजः दूतै स्सञ्चोदितो वाक्यं मातामहमुवाच ह
Verse 15
राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि
Verse 16
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्
Verse 17
गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया मातरं कुशलं ब्रूयाः पितरं च परन्तप
Verse 18
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ
Verse 19
तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च अभिसत्कृत्य कैकेयो भरताय धनं ददौ
Verse 20
रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत्
Verse 21
तथाऽमात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् ददावश्वपतिः क्षिप्रं भरतायानुयायिनः
Verse 22
ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् खरान् श्रीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ
Verse 23
अन्तःपुरेऽति संवृद्धान् व्याघ्रवीर्यबलान्वितान् दंष्ट्राऽऽयुधान्महाकायान् शुनश्चोपायनं ददौ
Verse 24
स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत भरतः कैकयीपुत्रो गमनत्वरया तदा
Verse 25
बभूव ह्यस्य हृदये चिन्ता सुमहती तदा त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात्
Verse 26
स स्ववेश्माभ्यतिक्रम्य नरनागाश्वसंवृतम् प्रपेदे सुमहच्छ्रीमान्राजमार्गमनुत्तमम्
Verse 27
अभ्यतीत्य ततोऽपश्यदन्तःपुरमुदारधीः ततस्तद्भरतश्श्रीमानाविवेशानिवारितः
Verse 28
स मातामहमापृच्छ्य मातुलं च युधाजितम् रथमारुह्य भरतश्शत्रुघ्नसहितो ययौ
Verse 29
रथान्मण्डल चक्रांश्च योजयित्वा परश्शतम् उष्ट्र गोऽश्वबलैर्भृत्या भरतं यान्तमन्वयुः
Verse 30
बलेन गुप्तो भरतो महात्मा सहार्यकस्याऽत्मसमैरमात्यैः आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात्
0:000:00
Speed: