Book 2 • Chapter 69
Sarga 69
21 verses
Verse 1
यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः
Verse 2
व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत
Verse 3
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः आयासं हि विनेष्यन्त स्सभायां चक्रिरे कथाः
Verse 4
वादयन्ति तथा शान्तिं लास यन्त्यपि चापरे नाटकान्यपरे प्राहुर्हास्यानि विविधानि च
Verse 5
स तैर्महात्मा भरतस्सखिभिः प्रियवादिभिः गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः
Verse 6
तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे
Verse 7
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह श्रुणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम्
Verse 8
स्वप्ने पितरमद्राक्षं मलिनं मुक्त मूर्धजम् पतन्तमद्रिशिखरात्कलुषे गोमयह्रदे
Verse 9
प्लवमानश्च मे दृष्टस्स तस्मिन्गोमयह्रदे पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः
Verse 10
ततस्तिलौदनं भुक्त्वा पुनः पुनरधश्शिराः तैलेनाभ्यक्तसर्वाङ्गः तैलमेवान्वगाहत
Verse 11
स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भवि उपरुद्धां च जगतीं तमसेव समावृताम् औपवाह्यस्य नागस्य विषाणं शकलीकृतम् सहसाचापि संशान्तं ज्वलितं जातवेदसम् अवतीर्णां च पृथिवीं शुष्कां श्च विविधान् द्रुमान् अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान्
Verse 12

Verse 13

Verse 14
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः
Verse 15
त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः रथेन खरयुक्तेन प्रयातो दक्षिणामुखः
Verse 16
प्रहसन्तीव राजानं प्रमदा रक्तवासिनी प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना
Verse 17
एवमेतन्मया दृष्टमिमां रात्रिं भयावहम् अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति
Verse 18
नरो यानेन य स्स्वप्ने स्वरयुक्तेन याति हि अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते
Verse 19
एतन्निमित्तं दीनोऽहं तन्नवः प्रतिपूजये शुष्यतीव च मे कण्ठः न स्वस्थमिव मे मनः
Verse 20
न पश्यामि भयस्थानं भयं चैवोपधारये भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम जुगुप्सन्निव चाऽत्मानं न पश्यमि च कारणम्
Verse 21
इमां च दुस्स्वप्नगतिं निशाम्यतामनेकरूपामवितर्कितां पुरा भयं महत्तद्धृदयान्नयाति मे विचिन्त्य राजानमचिन्तदर्शनम्
0:000:00
Speed: