Book 2 • Chapter 68
Sarga 68
22 verses
Verse 1
तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः
Verse 2
यदसौ मातुलकुले दत्तराज्यं परं सुखी भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्
Verse 3
यदसौ मातुलकुले दत्तराज्यं परं सुखी भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्
Verse 4
गच्छन्त्विति तत स्सर्वे वसिष्ठं वाक्यमब्रुवन् तेषां तद्वचनं श्रूत्वा वसिष्ठो वाक्यमब्रवीत्
Verse 5
एहि सिद्धार्थ विजय जयन्ताशोक नन्दन श्रूयतामिति कर्तव्यं सर्वानेव ब्रवीमि वः
Verse 6
पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवै र्हयैः त्यक्तशोकैरिदं वाच्य श्शासनाद्भरतो मम
Verse 7
पुरोहित स्त्वां कुशलं प्राह सर्वे च मन्त्रिणः त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
Verse 8
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् भवन्त श्शंसिषुर्गत्वा राघवाणामिमं क्षयम्
Verse 9
कौशेयानि च वस्त्राणि भूषणानि वराणि च क्षिप्रमादय राज्ञश्च भरतस्य च गच्छत
Verse 10
दत्तपथ्यशना दूता जग्मुस्स्वं स्वं निवेशनम् केकयां स्ते गमिष्यन्तो हयानारुह्य संमतान्
Verse 11
ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् वसिष्ठेनाभ्यनुज्ञाता दूता स्संत्वरिता ययुः
Verse 12
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति निषेवमाणा स्ते जग्मुर्नदीं मध्येन मालिनीम्
Verse 13
ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् सरांसि च सुपूर्णानि नदीश्च विमलोदकाः निरीक्षमाणा स्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्
Verse 14
ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् सरांसि च सुपूर्णानि नदीश्च विमलोदकाः निरीक्षमाणा स्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्
Verse 15
ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्
Verse 16
निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम्
Verse 17
आभिकालं ततः प्राप्य ते बोधिभवनाच्च्युताम् पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम्
Verse 18
अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान्वेदपारगान् ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम्
Verse 19
विष्णोः पदं प्रेक्षमाणा विपाशांचापि शाल्मलीम् नदीर्वापी स्तटाकानि पल्वलानि सरांसि च पश्यन्तो विविधांश्चापि सिंहाव्याघ्रमृग द्विपान् ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः
Verse 20
विष्णोः पदं प्रेक्षमाणा विपाशांचापि शाल्मलीम् नदीर्वापी स्तटाकानि पल्वलानि सरांसि च पश्यन्तो विविधांश्चापि सिंहाव्याघ्रमृग द्विपान् ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः
Verse 21
ते श्रान्तवाहना दूता विकृष्णेन पथा ततः गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा
Verse 22
भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् अहेडमाना स्त्वरया स्म दूता रात्र्यान्तु ते तत्पुरमेव याताः
0:000:00
Speed: