🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 67

Sarga 67

38 verses

Verse 1
आक्रन्दितनिरानन्दा सास्रकण्ठजनाकुला अयोध्यायामवतता सा व्यतीयाय शर्वरी
Verse 2
व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः समेत्य राजकर्तारः सभामीयुर्द्विजातयः
Verse 3
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः कात्यायनो गौतमश्च जाबालिश्च महायशाः एते द्विजा स्सहामात्यैः पृथग्वा  मुदीरयन् वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्
Verse 4
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः कात्यायनो गौतमश्च जाबालिश्च महायशाः एते द्विजा स्सहामात्यैः पृथग्वा  मुदीरयन् वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्
Verse 5
अतीता शर्वरी दुःखं या नो वर्षशतोपमा अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे
Verse 6
स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः लक्ष्मणश्चापि तेजस्वी रामेणैव गतस्सह
Verse 7
उभौ भरतशत्रुघ्नौ केकयेषु परन्तपौ पुरे राजगृहे रम्ये मातामहनिवेशने
Verse 8
इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात्
Verse 9
नाराजके जनपदे विद्युन्माली महास्वनः अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा
Verse 10
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते नाराजके पितुः पुत्रो भार्या वा वर्तते वशे
Verse 11
नाराजके धनं चास्ति नास्ति भार्या प्यराजके इद मत्याहितं चान्यत्कुतस्सत्य मराजके
Verse 12
नाराजके जनपदे कारयन्ति सभां नराः उद्यानानि  रम्याणि हृष्टाः पुण्यगृहाणि 
Verse 13
नाराजके जनपदे यज्ञशीला द्विजातयः सत्राण्यन्वासते दान्ता ब्राह्मणा स्संशितव्रताः
Verse 14
नाराजके जनपदे महायज्ञेषु यज्वनः ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः
Verse 15
नाराजके जनपदे प्रभूतनटनर्तकाः उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः
Verse 16
नाराजके जनपदे सिद्धार्था व्यवहारिणः कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः
Verse 17
नाराजके जनपदे उद्यानानि समागताः सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः
Verse 18
नाराजके जनपदे वाहनै शशीघ्रगामिभिः नरा निर्यान्त्यरण्यानि नारीभिस्सह कामिनः
Verse 19
नाराजके जनपदे धनवन्तस्सुरक्षिताः शेरते विवृतद्वाराः कृषिगोरक्षजीविनः
Verse 20
नाराजके जनपदे बद्धघण्टाविषाणिनः अटन्ति राजमार्गेषु कुञ्जरा षष्टिहायनाः
Verse 21
नाराजके जनपदे शरान्सन्ततमस्यताम् श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने
Verse 22
नाराजके जनपदे वणिजो दूरगामिनः गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः
Verse 23
नाराजके जनपदे चरत्येकचरो वशी भावयन्नात्मनाऽत्मानं यत्र सायंगृहो मुनिः
Verse 24
नाराजके जनपदे योगक्षेमं प्रवर्तते नचाप्यराजके सेना शत्रून्विषहते युधि
Verse 25
नाराजके जनपदे हृष्टैः परमवाजिभिः नरास्संयान्ति सहसा रथैश्च परिमण्डिताः
Verse 26
नाराजके जनपदे नराश्शास्त्रविशारदाः संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु 
Verse 27
नाराजके जनपदे माल्यमोदकदक्षिणाः देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः
Verse 28
नाराजके जनपदे चन्दनागरुरूषिताः राजपुत्रा विराजन्ते वसन्त इव शाखिनः
Verse 29
यथा ह्यनुदका नद्यः यथा वाऽप्यतृणं वनम् अगोपाला यथा गावस्तथा राष्ट्रमराजकम्
Verse 30
ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः तेषां यो नो ध्वजो राजा  देवत्वमितो गतः
Verse 31
नाराजके जनपदे स्वकं भवति कस्यचित् मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्
Verse 32
ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः
Verse 33
यथा दृष्टि श्शरीरस्य नित्यमेव प्रवर्तते तथा नरेन्द्रो राष्ट्रस्य प्रभवस्सत्यधर्मयोः
Verse 34
राजा सत्यं  धर्मश्च राजा कुलवतां कुलम् राजा माता पिता चैव राजा हितकरो नृणाम्
Verse 35
यमो वैश्रवण श्शक्रः वरुणश्च महाबलः विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः
Verse 36
अहो तम इवेदं स्यान्नप्रज्ञायेत किञ्चन राजा चे न्न भवे ल्लोके विभज साध्वसाधुनी
Verse 37
जीवत्यपि महाराजे तवैव वचनं वयम् नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः
Verse 38
  स्समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिञ्च
0:000:00
Speed: