Book 2 • Chapter 66
Sarga 66
29 verses
Verse 1
तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत
Verse 2
तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् हतप्रभमिवाऽऽदित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् कौसल्या बाष्पपूर्णाक्षी विविधां शोककर्शिता उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत
Verse 3
सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि
Verse 4
विहाय मां गतो रामः भर्ता च स्वर्गतो मम विपथे सार्थहीनेव नाहं जीवितुमुत्सहे
Verse 5
भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः
Verse 6
न लुब्धो बुध्यते दोषान् किम्पाकमिव भक्षयन् कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्
Verse 7
अनियोगे नियुक्तेन राज्ञा रामं विवासितम् सभार्यं जनकश्श्रुत्वा परितप्स्यत्यहं यथा
Verse 8
स मामनाथां विधवां नाद्य जानाति धार्मिकः रामः कमलपत्राक्षः जीवन्नाशमितो गतः
Verse 9
विदेहराजस्य सुता तथा सीता तपस्विनी दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति
Verse 10
नदतां भीमघोषाणां निशासु मृगपक्षिणाम् निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति
Verse 11
वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्
Verse 12
साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता इदं शरीर मालिङ्ग्य प्रवेक्ष्यामि हुताशनम्
Verse 13
तां ततस्सम्परिष्वज्य विलपन्तीं तपस्विनीम् व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः
Verse 14
तैलद्रोण्यामथामात्या सम्वेश्य जगतीपतिम् राज्ञस्सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्
Verse 15
न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्
Verse 16
तैलद्रोण्यां तु सचिवैश्शायितं तं नराधिपम् हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्
Verse 17
बाहूनुद्यम्य कृपणाः नेत्रप्रस्रवणैर्मुखैः रुदन्त्य श्शोकसन्तप्ताः कृपणं पर्यदेवयन्
Verse 18
हा महाराज रामेण सततं प्रियवादिना विहीनास्सत्यसन्धेन किमर्थं विजहासि नः
Verse 19
कैकेय्या दुष्टभावायाः राघवेण वियोजिताः कथं पतिघ्नया वत्स्याम स्समीपे विधवा वयम्
Verse 20
स हि नाथस्सदास्माकं तव च प्रभुरात्मवान् वनं रामो गतश्श्रीमान्विहाय नृपतिश्रियम्
Verse 21
त्वया तेन च वीरेण विना व्यसनमोहिताः कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः
Verse 22
यया तु राजा रामश्च लक्ष्मणश्च महाबलः सीतया सह सन्त्यक्ता स्साकमन्यं न हास्यति
Verse 23
ता बाष्पेण च संवीताश्शोकेन विपुलेन च व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः
Verse 24
निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता पुरी नाराजतायोध्या हीना राज्ञा महात्मना
Verse 25
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्
Verse 26
गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च निवृत्तचारस्सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता
Verse 27
ऋते तु पुत्राद्धहनं महीपतेर्नरोचयन्ते सुहृदस्समागताः इतीव तस्मिन् शयने न्यवेशयन् वनिचिन्त्य राजानमचिन्त्य दर्शनम्
Verse 28
गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी पुरी बभासे रहिता महात्मना न चास्रकण्ठाऽकुलमार्गचत्वरा
Verse 29
नराश्च नार्यश्च समेत्य सङ्घशः विगर्हमाणा भरतस्य मातरम् तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता न च शर्म लेभिरे
0:000:00
Speed: