🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 65

Sarga 65

29 verses

Verse 1
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः गायका: स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्
Verse 2
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि वन्दिनः पर्युपातिष्ठंस्तत्पार्थिव निवेशनम् सूताः परमसंस्कारा मङ्गलाश्चोत्तमश्रुताः गायका: स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्
Verse 3
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् प्रासादाऽभोगविस्तीर्णः स्तुतिशब्दोह्यवर्तत
Verse 4
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः अपदानान्युदाहृत्य पाणिवादा नवादयन्
Verse 5
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः
Verse 6
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः आशीर्गेयं  गाथानां पूरयामास वेश्म तत्
Verse 7
तत श्शुचिसमाचाराः पर्युपस्थानकोविदाः स्त्रीवर्ष धरभूयिष्ठा उपतस्थुर्यथापुरम्
Verse 8
हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः आनिन्युस्स्नानशिक्षाज्ञा यथाकालं यथाविधि
Verse 9
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः
Verse 10
सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम्
Verse 11
तत स्सूर्योदयं यावत्सर्वं परिसमुत्सुकम् तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम्
Verse 12
अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्
Verse 13
तथाप्युचितवृत्ता स्ता विनयेन नयेन  नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे
Verse 14
ताः स्त्रियस्स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे
Verse 15
अथ सन्देहमानानां स्त्रीणां दृष्ट्वा  पार्थिवम् यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः
Verse 16
कौसल्या  सुमत्रच पुत्रशोकपराजिते प्रसुप्ते  प्रबुध्येते यथा कालसमन्विते
Verse 17
निष्प्रभा  विवर्णा  सन्ना शोकेन सन्नता  व्यराजत कौसल्या तारेव तिमिरावृता
Verse 18
कौसल्याऽनन्तरं राज्ञस्सुमित्रा तदन्तनरम्  स्म विभ्राजते देवी शोकाश्रुलुलितानना
Verse 19
ते  दृष्ट्वा तथा सुप्ते शुभे देव्यौ  तं नृपम् सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत
Verse 20
ततः प्रचुक्रुशुर्दीना स्सस्वरं ता वराङ्गनाः करेणव इवारण्ये स्थानप्रच्युतयूथपाः
Verse 21
तासामाक्रन्दशब्देन सहसोद्धतचेतने कौसल्या  सुमित्रा  त्यक्त निद्रे बभूवतुः
Verse 22
कौसल्या  सुमित्रा  दृष्ट्वा स्प़ृष्ट्वा  पार्थिवम् हा नाथेति परिक्रुश्य पेततुर्धरणीतले
Verse 23
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले  बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता
Verse 24
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव
Verse 25
ततस्सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः रुदन्त्य श्शोकसन्तप्ता निपेतुर्गतचेतनाः
Verse 26
ताभिस्स बलवान्नादः क्रोशन्तीभिरनुद्रुतः येन स्फीतीकृतं भूयस्तद्गृहं समनादयत्
Verse 27
तत् परित्रस्तन्त्रसम्भ्रान्त पर्युत्सुकजनाकुलम् सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् सद्यो निपतितानन्दं दीनविक्लबदर्शनम् बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः
Verse 28
तत् परित्रस्तन्त्रसम्भ्रान्त पर्युत्सुकजनाकुलम् सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् सद्यो निपतितानन्दं दीनविक्लबदर्शनम् बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः
Verse 29
अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत्
0:000:00
Speed: