🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 64

Sarga 64

79 verses

Verse 1
वधमप्रतिरूपं तु महर्षेस्तस्य राघवः विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत्
Verse 2
तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः एकस्त्वचिन्तयं बुध्या कथं नु सुकृतं भवेत्
Verse 3
ततस्तं घटमादाय पूर्णं परमवारिणा आश्रमं तमहं प्राप्य यथाऽख्यातपथं गतः
Verse 4
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ तामाशां मत्कृते हीनावुदासीनावनाथवत्
Verse 5
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ तामाशां मत्कृते हीनावुदासीनावनाथवत्
Verse 6
शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः तच्चाऽश्रमपदं गत्वा भूयश्शोकमहं गतः
Verse 7
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय
Verse 8
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्
Verse 9
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया  तन्मनसि कर्तव्यं त्वया तात तपस्विना
Verse 10
त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम् समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे
Verse 11
मुनिमव्यक्तया वाचा तमहं सज्जमानया हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रुवम्
Verse 12
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्
Verse 13
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्
Verse 14
भगवंश्चापहस्तोऽहं सरयूतीरमागतः जिघांसुश्श्वापदं कञ्चिन्निपाने चाऽगतं गजम्
Verse 15
ततश्श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया
Verse 16
गत्वा नद्यास्तत स्तीरमपश्यमिषुणा हृदि विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्
Verse 17
भगवच्छशब्दमालक्ष्य मया गजजिघांसुना विसृप्टोऽम्भसि नाराचस्तेन ते निहतस्सुतः
Verse 18
ततस्तस्यैव वचनादुपेत्य परितप्यतः  मया सहसा बाण उधृतो मर्मतस्तदा
Verse 19
 चोधृतेन बाणेन तत्रैव स्वर्गमास्थितः भवन्तौ पितरौ शोचन्नन्धाविति विलप्य 
Verse 20
अज्ञानाद्भवतः पुत्र स्सहसाऽभिहतो मया शेषमेवं गते यत्स्यात्तत्प्रसीदतु मे मुनिः
Verse 21
 तच्च्रुत्वा वचः क्रूरं मयोक्तमघशंसिना नाशकत्तीव्रमायासमकर्तुं भगवानृषिः
Verse 22
 बाष्पपूर्णवदनो निश्श्वसन्शोककर्शितः मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्
Verse 23
यद्येतदशुभं कर्म  त्वं मे कथयेस्स्वयम् फलेन्मूर्धा स्म ते राजन् सद्य श्शतसहस्रधा
Verse 24
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ज्ञानपूर्वं कृत स्स्थानाच्च्यावयेदपि वज्रिणम्
Verse 25
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ज्ञानाद्विसृजतश्शस्त्रं तादृशे ब्रह्मावादिनि
Verse 26
अज्ञानाद्धिकृतं यस्मादिदं तेनैव जवसि अपि ह्यद्य कुलं  स्यादिक्ष्वाकूणां कुतो भवान्
Verse 27
नय नौ नृप तं देशमिति मां चाभ्यभाषत अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् शयानं भुवि निस्संज्ञं धर्म राजवशं गतम्
Verse 28
नय नौ नृप तं देशमिति मां चाभ्यभाषत अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् शयानं भुवि निस्संज्ञं धर्म राजवशं गतम्
Verse 29
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया
Verse 30
तौ पुत्रमात्मन स्स्पृष्ट्वा तमासाद्य तपस्विनौ निपेततुश्शरीरेऽस्य पिता चास्येदमब्रवीत्
Verse 31
नाभिवादयसे माद्य   माऽमभिभाषसे किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि
Verse 32
 त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक किं नु नालिङ्गसे पुत्र सुकुमार वचो वद
Verse 33
कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम् अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः
Verse 34
को मां सन्द्यामुपास्यैव स्नात्वा हुतहुताशनः श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम्
Verse 35
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्
Verse 36
इमामन्धां  वृद्धां  मातरं ते तपस्विनीम् कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम्
Verse 37
तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति श्वो मया सह गन्तासि जनन्या  समेधितः
Verse 38
उभावपि  शोकार्तावनाथौ कृपणौ वने क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्
Verse 39
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् क्षमतां धर्मराजो मे बिभृयात्पितरावयम्
Verse 40
दातुमर्हति धर्मात्मा लोकपालो महायशाः ईदृशस्य ममाक्षय्या मेकामभयदक्षिणाम्
Verse 41
अपापोऽसि यदा पुत्र निहतः पापकर्मणा तेन सत्येन गच्छाऽऽशु ये लोकाश्शस्त्रयोधिनाम्
Verse 42
यान्ति शूरा गतिं यां  सङ्ग्रामेष्वनिवर्तिनः हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज
Verse 43
यां गतिं सगरश्शैब्यो दिलीपो जनमेजयः नहुषो दुन्दुमारश्च प्राप्तास्तां गच्छ पुत्रक
Verse 44
या गति स्सर्वसाधूनां स्वाध्यायात्तपसाच या या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य  गोसहस्रप्रदातृ़णां या या गुरुभृतामपि देहन्यासकृतां या  तां गतिं गच्छ पुत्रक
Verse 45
या गति स्सर्वसाधूनां स्वाध्यायात्तपसाच या या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य  गोसहस्रप्रदातृ़णां या या गुरुभृतामपि देहन्यासकृतां या  तां गतिं गच्छ पुत्रक
Verse 46
 हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम्  तु यास्यति येन त्वं निहतो मम बान्धवः
Verse 47
एवं  कृपणं तत्र पर्यदेवयतासकृत् ततोऽस्मै कर्तुमुदकं प्रवृत्तस्सहभार्यया
Verse 48
 तु दिव्येन रूपेण मुनिपुत्रस्स्वकर्मभिः स्वर्गमध्यारुहत्क्षिप्रं शक्रेण सह धर्मवित्
Verse 49
आबभाषे  वृद्धौ तौ सह शक्रेण तापसः आश्वास्यच मुहूर्तं तु पितरौ वाक्यमब्रवीत्
Verse 50
स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् भवन्तावपि  क्षिप्रं मम मूलमुपैष्यतः
Verse 51
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः
Verse 52
 कृत्वा तूदकं तूर्णं तापस स्सह भार्यया मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्
Verse 53
अद्यैव जहिं मां राजन्मरणे नास्ति मे व्यथा यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम्
Verse 54
त्वया तु यदविज्ञानान्निहतो मे सुतश्शुचिः तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्
Verse 55
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि
Verse 56
अज्ञानात्तु हतो यस्मात्क्षत्रियेण त्वया मुनिः तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप
Verse 57
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति जीवितान्तकरो घोरो दातारमिव दक्षिणा
Verse 58
एवं शापं मयि न्यस्य विलप्य करुणं बहु चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात्
Verse 59
तदेतच्छिन्तयानेन स्मृतं पापं मया स्वयम् तदा बाल्यात्कृतं देवि शब्दवेध्यनुशिक्षिणा
Verse 60
तस्यायं कर्मणो देवि विपाकस्समुपस्थितः अपथ्यैस्सहम्भुक्ते व्याधिरन्नरसे यथा
Verse 61
तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम्
Verse 62
चक्षुभ्यां त्वां  पश्यामि कौसल्ये साधु मां स्फृश इत्युक्त्वा  रुदंस्त्रस्तो भार्यामाह  भूमिपः
Verse 63
एतन्मे सदृशं देवि यन्मया राघवे कृतम् सदृशं तत्तु तस्यैव यदनेन कृतं मयि
Verse 64
दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः
Verse 65
यदि मां संस्पृशेद्रामस्सकृदद्य लभेत वा यमक्षयमनुप्राप्ता द्रक्ष्यन्ति  हि मानवाः
Verse 66
चक्षुषा त्वां  पश्यामि स्मृतिर्मम विलुप्यते दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्
Verse 67
अतस्तु किं दुःखतरं यदहं जीवितक्षये  हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्
Verse 68
तस्यादर्शनजश्शोकस्सुतस्याप्रतिकर्मणः उच्छोषयति मे प्राणान्वारिस्तोकमिवातपः
Verse 69
 ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः
Verse 70
पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्
Verse 71
सदृशं शारदस्येन्दोः पुल्लस्य कमलस्य  सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्
Verse 72
निवृत्तवनवासं तमयोध्यां पुनरागतम् द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा
Verse 73
कौसल्ये चित्तमोहेन हृदयं सीदतीव मे वेदये   संयुक्तान् शब्दस्पर्शरसानहम्
Verse 74
चित्तनाशाद्विपद्यन्ते सर्वाण्येन्द्रियाणि मे क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा
Verse 75
अयमात्मभवश्शोको मामनाथमचेतनम् संसादयति वेगेन यथा कूलं नदीरयः
Verse 76
हा राघव महाबाहो हा ममाऽयासनाशन हा पितृप्रिय मे नाथ हाऽद्य क्वासि गतस्सुत
Verse 77
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि हा नृशंसे ममामित्रे कैकेयि कुलपांसनि
Verse 78
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ राजा दशरथ श्शोचञ्जीवितान्तमुपागमत्
Verse 79
यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्त्रस्य विवासनातुरः गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः
0:000:00
Speed: