🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 63

Sarga 63

53 verses

Verse 1
प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः अथ राजा दशरथस्सचिन्तामभ्यपद्यत
Verse 2
रामलक्ष्मणयोश्चैव विवासा द्वासवोपमम् आविवेशोपसर्गस्तं तम स्सूर्यमिवासुरम्
Verse 3
सभार्ये निर्गते रामे कौसल्यां कोशलेश्वरः विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः
Verse 4
 राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम् अर्धरात्रे दशरथ स्संस्मरन् दुष्कृतं कृतम्
Verse 5
 राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्
Verse 6
यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् तदेव लभते भद्रे कर्ता कर्मजमात्मनः
Verse 7
गुरुलाघवमर्थानामारम्भे कर्मणां फलम् दोषं वा यो  जानाति  बाल इति होच्यते
Verse 8
कश्चिदाम्रवणं छित्त्वा पलाशां श्च निषिञ्चति पुष्पं दृष्ट्वा फले गृध्नु स्स शोचति फलागमे
Verse 9
अविज्ञाय फलं यो हि कर्म त्वेवानुधावति  शोचेत्फलवेलायां यथा किंशुकसेचकः
Verse 10
सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम् रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः
Verse 11
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता कुमारश्शब्दवेधीति मया पापमिदं कृतम्
Verse 12
तदिदं मेऽनुसंम्प्राप्तं देवि दुःखं स्वयं कृतम् सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम्
Verse 13
यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् एवं ममाऽप्यविज्ञातं शब्दवेध्यमयं फलम्
Verse 14
देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी
Verse 15
उपास्य  रसान्भौमां स्तप्त्वा  जगदंशुभिः परेताचरितां भीमां रविराविशते दिशम्
Verse 16
उष्णमन्तर्दधे सद्य स्स्निग्धा ददृशिरे घनाः ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः
Verse 17
क्लिन्न पक्षोत्तरास्स्नाताः कृच्छ्रादिव पतत्रिणः वृष्टिवातावधूताग्रान्पादपानभिपेदिरे
Verse 18
पतितेनाम्भसाच्छन्नः पतमानेन चासकृत् आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः
Verse 19
पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि सुस्रुवुर्गिरिधातुभ्यस्सभस्मानि भुजङ्गवत्
Verse 20
आकुलारुण तोयानि स्रोतांसि विमलान्यपि उन्मार्गजलवाहिनी बभूवुर्जलदागमे
Verse 21
तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी व्यायामकृतसङ्कल्पस्सरयूमन्वगां नदीम्
Verse 22
निपाने महिषं रात्रौ गजं वाऽभ्यागतं नदीम् अन्यं वा श्वापदं कञ्चिज्जिघांसु रजितेन्द्रियः तस्मिं स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः
Verse 23
तत्राहं संवृतं वन्यं हतवांस्तीरमागतम् अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम्
Verse 24
अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः अचक्षुर्विषये घोषं वारणस्येव नर्दतः
Verse 25
ततोऽहं शरमुधृत्य दीप्तमाशीविषोपमम् शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम्
Verse 26
अमुञ्चं निशितं बाणमहमाशीविषोपमम् तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः हाहेति पततस्तोये बाणाभिहतमर्मणः
Verse 27
अमुञ्चं निशितं बाणमहमाशीविषोपमम् तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः हाहेति पततस्तोये बाणाभिहतमर्मणः
Verse 28
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि
Verse 29
प्रविविक्तां नदीं रात्रावुदाहाऽरोहमागतः इषुणाऽभिहतः केन कस्य वा किं कृतं मया
Verse 30
ऋषेर्हिन्यस्तदण्डस्य वने वन्येन जीवतः कथं नु शस्रेण वधो मद्विधस्य विधीयते
Verse 31
जटाभारधरस्यैव वल्कलाजिनवाससः को वधेन ममर्थी स्यात्किंवाऽस्यापकृतं मया
Verse 32
एवं निष्फलमारब्धं केवलानर्थसंहितम्  कश्चित्साधु मन्येत यथैव गुरुतल्पगम्
Verse 33
नाहं तथाऽनु शोचामि जीवितक्षयमात्मनः मातरं पितरं चोभावनुशोचामि मद्वधे
Verse 34
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति
Verse 35
वृद्धै  मतापितरावहं चैकेषुणा हता केन स्मनिहता स्सर्वे सुबालेनाकृतात्मना
Verse 36
तां गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि
Verse 37
तस्याहं करुणं श्रुत्वा निशि लालवतो बहु सम्भ्रान्त श्शोकवेगेन भृशमासं विचेतनः
Verse 38
तं देशमहमागम्य दीनसत्त्वस्सुदुर्मनाः अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् अवकीर्ण जटाभारं प्रविद्धकलशोदकम् पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम्
Verse 39
तं देशमहमागम्य दीनसत्त्वस्सुदुर्मनाः अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् अवकीर्ण जटाभारं प्रविद्धकलशोदकम् पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम्
Verse 40
 मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा
Verse 41
किं तवापकृतं राजन्वने निवसता मया जिहीर्षुरम्भो गुर्वुर्थं यदहं ताडितस्त्वया
Verse 42
एकेन खलु बाणेन मर्मण्यभिहते मयि द्वावन्धौ निहतौ वृद्धौ माता जनयिता  मे
Verse 43
तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः
Verse 44
 नूनं तपसो वास्ति फलयोगश्श्रुतस्य वा पिता यन्मां  जानाति शयानं पतितं भुवि
Verse 45
जानन्नपि  किं कुर्यादशक्तिरपरिक्रमः भिद्यमानमिवाशक्त स्त्रतुमन्यो नगो नगम्
Verse 46
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्य राघव  त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः
Verse 47
इयमेकपदी राजन्यतो मे पितुराश्रमः तं प्रसादय गत्वा त्वं  त्वां  कुपितश्शपेत्
Verse 48
विशल्यं कुरु मां राजन्मर्म मे निशितश्शरः रुणद्धि मृदुसोत्सेधं तीरमम्बुरयो यथा
Verse 49
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति इति मामविशच्चिन्ता तस्य शल्यापकर्षणे
Verse 50
दुःखितस्य  दीनस्य मम शोकातुरस्य  लक्षयामास हृदये चिन्तां मुनिसुतस्तदा
Verse 51
ताम्यमानस्स मां कृच्छ्रादुवाच परमार्तवत् सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम्
Verse 52
संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ब्रह्महत्याकृतं पापं हृदयादपनीयताम्
Verse 53
 द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा शूद्रायामस्मि वैश्येन जातो जनपदाधिप
0:000:00
Speed: