🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 2 • Chapter 62

Sarga 62

20 verses

Verse 1
एवं तु क्रुद्धया राजा राममात्रा सशोकया श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः
Verse 2
चिन्तयित्वा   नृपो मुमोह व्याकुलेन्द्रियः अथ दीर्घीण कालेन संज्ञामाप परन्तपः
Verse 3
 संज्ञामुपलभ्यैव दीर्घमुष्णं  निश्श्वसन् कौसल्यां पार्श्वतो दृष्ट्वा पुन श्चिन्तामुपागमत्
Verse 4
तस्य चिन्तयमानस्य प्रत्याभात्कर्म दुष्कृतम् यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना
Verse 5
अमनास्तेन शोकेन रामशोकेन  प्रभुः द्वाभ्यामपि महाराज श्शोकाभ्यामन्वतप्यत
Verse 6
दह्यामान स्सशोकाभ्यां कौसल्यामाह भूपतिः वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः
Verse 7
प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः वत्सला चानृशंसा  त्वं हि नित्यं परेष्वपि
Verse 8
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्
Verse 9
सा त्वं धर्मपरा नित्यं दृष्टलोक परावरा नार्हसे विप्रियं वक्तुं दुखिःताऽपि सुदुःखितम्
Verse 10
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्
Verse 11
सा मूर्ध्निबध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः
Verse 12
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते याचितास्मि हता देव क्षन्तव्याऽहं  हि त्वया
Verse 13
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता उभयोर्लोकयोर्वीर पत्या या सम्साद्यते
Verse 14
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् पुत्रशोकार्तया तत्तु मया किमपि भाषितम्
Verse 15
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् शोको नाशयते सर्वं नास्ति शोकसमो रिपुः
Verse 16
शक्य आपतित स्सोढुं प्रहारो रिपुहस्ततः सोढुंमापतितश्शोकस्सुसूक्ष्मोऽपि  शक्यते
Verse 17
धर्मज्ञा श्श्रुतिमन्तोऽपि छिन्नधर्मार्थसंशयाः यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः
Verse 18
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते  श्शोकहतहर्षायाः पञ्चवर्षोपमो मम
Verse 19
तं हि चिन्तयमानाया श्शोकोऽयं हृदि वर्धते नदीनामिव वेगेन समुद्रसलिलं महत्
Verse 20
एवं हि कथयन्त्यास्तु कौसल्यायाश्शुभं वचः मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत
0:000:00
Speed: